Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२६०
सूत्रार्थमुक्तावल्याम्
[ चतुर्थी
घटवदिति । अजीवेषु आकाशपरमाण्वादिषु जीवसंज्ञा पुरुष एवेदं सर्वमित्याद्यभ्युपगमात् तथा 'क्षितिजलपव नहुताशनयजमानाकाशचन्द्रसूर्याख्याः इति मूर्त्तयो महेश्वरसम्बन्धिन्यो भवन्त्यष्टौ ' इति । साधुषु ब्रह्मचर्यादिगुणान्वितेषु असाधुसंज्ञा, एते हि कुमारप्रव्रजिता नास्त्येषां गतिरपुत्रत्वात् नानादिविरहितत्वाद्वेत्यादिविकल्पात्मिका । असाधुषु षड्जीव निकायवधानिवृत्तेष्वौदेशिका दिभोजिष्वब्रह्म5 चारिषु साधुसंज्ञा, यथा साधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वा दित्यादिविकल्परूपा । मुक्तेषु सकलकर्मकृतविकारविरहितेष्वनन्तज्ञानदर्शन सुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवेदृशा मुक्ताः मुक्तस्य विध्यातदीपककल्पत्वात्, आत्मन एव वा नास्तित्वादित्यादिविकल्परूपा । तथाऽमुक्तेषु कर्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा 'अणिमाद्यष्टविधं प्राप्य यैश्वर्यं कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तर' मित्यादिविकल्परूपेति ॥ २२३॥
पूर्वोदितानां सुखं न कदाचिदपीति सुखं निरूपयति —
आरोग्यदीर्घायुराढ्यत्वकामभोगसन्तोषास्तित्वशुभभोगनिष्क्रमाना
10
बाधानि सुखानि ॥ २२४ ॥
आरोग्येति, आरोग्यं नीरोगता, दीर्घमायुः चिरंजीवितं शुभम्, आढ्यत्वं धन-पतित्वं सुखकारणत्वात् सुखरूपम्, अथवा आढ्यैः क्रियमाणा पूजाऽऽन्यत्वम्, काम: - शब्दरूपलक्षणः, भोगः 15 गन्धरसस्पर्शस्वरूपः, संश्लेषपूर्वक सुखजनकत्वात् सन्तोष:- अल्पेच्छता, तत्सुखमेव, आनन्दरूपत्वात्सन्तोषस्य, उक्तच 'आरोग्गसारियं माणुसत्तणं सञ्चसारिओ धम्मो । विज्जा निच्छियसारा सुहाई संतोससाराई ॥' इति, अस्तित्वं येन येन यदा यदा प्रयोजनं तदा तदा तस्य सत्त्वम् अस्यानन्दहेतुत्वात्सुखरूपता, शुभभोगः अनिन्दिता विषयेषु भोगक्रिया सा सुखमेव सातोदय सम्पाद्यत्वात्, निष्क्रमः, अविरतिजम्बालान्निष्क्रमणं प्रव्रज्येत्यर्थः ; भवस्थानां हि निष्क्रमणमेव सुखं निराबाधस्वायत्तानन्दरूपत्वात् शेष20 सुखानि च दुःखप्रतीकारमात्रत्वात्सुखाभिमानजनकत्वाच्च न तत्त्वतः सुखं भवतीति । अनाबाधं - जन्म - जरामरणक्षुत्पिपासाद्याबाधारहितं सर्वोत्तमं मोक्षसुखमित्यर्थः ॥ २२४ ॥
निष्क्रमणसुखं हि चारित्रसुखं तच्चानुपहतमनाबाधसुखाय, अतः चारित्रस्यैतत्साधनस्य भक्तादेर्ज्ञानादेश्चोपघातकं निरूपयति
उद्गमोत्पादनैषणापरिकर्मपरिहरणाज्ञानदर्शनचारित्राप्रीतिकसंरक्षण25 विषय उपघातो विशुद्धिश्च ॥ २२५ ॥
उद्गमेति, आधाकर्मादिना षोडशविधेनोद्गमेन चारित्रस्य विराधनं भक्तादेव अकल्प्यता उद्गमोपघातः, एवं धात्र्यादिदोषलक्षणयोत्पादनया शंकितादिभेदयैषणया उपघातः, वस्त्रपात्रादिसमारचनं परिकर्म तेनोपघातः, स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्मोपघातः । अलाक्षणिकस्याकल्प्यस्य वोपकरणस्याऽऽसेवा परिहरणा तयोपघातः, श्रुतज्ञानापेक्षया प्रमादतः ज्ञानोपघातः, 30 शङ्कितादिभिर्दर्शनोपघातः, समितिभङ्गादिभिश्चारित्रोपघातः, विनयादेरप्रीति कोपघातः संरक्षणे

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340