SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २६० सूत्रार्थमुक्तावल्याम् [ चतुर्थी घटवदिति । अजीवेषु आकाशपरमाण्वादिषु जीवसंज्ञा पुरुष एवेदं सर्वमित्याद्यभ्युपगमात् तथा 'क्षितिजलपव नहुताशनयजमानाकाशचन्द्रसूर्याख्याः इति मूर्त्तयो महेश्वरसम्बन्धिन्यो भवन्त्यष्टौ ' इति । साधुषु ब्रह्मचर्यादिगुणान्वितेषु असाधुसंज्ञा, एते हि कुमारप्रव्रजिता नास्त्येषां गतिरपुत्रत्वात् नानादिविरहितत्वाद्वेत्यादिविकल्पात्मिका । असाधुषु षड्जीव निकायवधानिवृत्तेष्वौदेशिका दिभोजिष्वब्रह्म5 चारिषु साधुसंज्ञा, यथा साधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वा दित्यादिविकल्परूपा । मुक्तेषु सकलकर्मकृतविकारविरहितेष्वनन्तज्ञानदर्शन सुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवेदृशा मुक्ताः मुक्तस्य विध्यातदीपककल्पत्वात्, आत्मन एव वा नास्तित्वादित्यादिविकल्परूपा । तथाऽमुक्तेषु कर्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा 'अणिमाद्यष्टविधं प्राप्य यैश्वर्यं कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तर' मित्यादिविकल्परूपेति ॥ २२३॥ पूर्वोदितानां सुखं न कदाचिदपीति सुखं निरूपयति — आरोग्यदीर्घायुराढ्यत्वकामभोगसन्तोषास्तित्वशुभभोगनिष्क्रमाना 10 बाधानि सुखानि ॥ २२४ ॥ आरोग्येति, आरोग्यं नीरोगता, दीर्घमायुः चिरंजीवितं शुभम्, आढ्यत्वं धन-पतित्वं सुखकारणत्वात् सुखरूपम्, अथवा आढ्यैः क्रियमाणा पूजाऽऽन्यत्वम्, काम: - शब्दरूपलक्षणः, भोगः 15 गन्धरसस्पर्शस्वरूपः, संश्लेषपूर्वक सुखजनकत्वात् सन्तोष:- अल्पेच्छता, तत्सुखमेव, आनन्दरूपत्वात्सन्तोषस्य, उक्तच 'आरोग्गसारियं माणुसत्तणं सञ्चसारिओ धम्मो । विज्जा निच्छियसारा सुहाई संतोससाराई ॥' इति, अस्तित्वं येन येन यदा यदा प्रयोजनं तदा तदा तस्य सत्त्वम् अस्यानन्दहेतुत्वात्सुखरूपता, शुभभोगः अनिन्दिता विषयेषु भोगक्रिया सा सुखमेव सातोदय सम्पाद्यत्वात्, निष्क्रमः, अविरतिजम्बालान्निष्क्रमणं प्रव्रज्येत्यर्थः ; भवस्थानां हि निष्क्रमणमेव सुखं निराबाधस्वायत्तानन्दरूपत्वात् शेष20 सुखानि च दुःखप्रतीकारमात्रत्वात्सुखाभिमानजनकत्वाच्च न तत्त्वतः सुखं भवतीति । अनाबाधं - जन्म - जरामरणक्षुत्पिपासाद्याबाधारहितं सर्वोत्तमं मोक्षसुखमित्यर्थः ॥ २२४ ॥ निष्क्रमणसुखं हि चारित्रसुखं तच्चानुपहतमनाबाधसुखाय, अतः चारित्रस्यैतत्साधनस्य भक्तादेर्ज्ञानादेश्चोपघातकं निरूपयति उद्गमोत्पादनैषणापरिकर्मपरिहरणाज्ञानदर्शनचारित्राप्रीतिकसंरक्षण25 विषय उपघातो विशुद्धिश्च ॥ २२५ ॥ उद्गमेति, आधाकर्मादिना षोडशविधेनोद्गमेन चारित्रस्य विराधनं भक्तादेव अकल्प्यता उद्गमोपघातः, एवं धात्र्यादिदोषलक्षणयोत्पादनया शंकितादिभेदयैषणया उपघातः, वस्त्रपात्रादिसमारचनं परिकर्म तेनोपघातः, स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्मोपघातः । अलाक्षणिकस्याकल्प्यस्य वोपकरणस्याऽऽसेवा परिहरणा तयोपघातः, श्रुतज्ञानापेक्षया प्रमादतः ज्ञानोपघातः, 30 शङ्कितादिभिर्दर्शनोपघातः, समितिभङ्गादिभिश्चारित्रोपघातः, विनयादेरप्रीति कोपघातः संरक्षणे
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy