SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २५९ मुक्ता ] स्थानमुक्तासरिका । इत्यादि । एकार्थिकानां वाऽनुयोगो यथा जीवनात् प्राणधारणाज्जीवः प्राणानामुच्छ्रासादीनामस्तित्वात् प्राणी, सर्वदा भवनाद्भूतः, सर्वदा सत्त्वात्सत्त्व इत्यादि । क्रियत एभिरिति करणानि तेषामनुयोगः करणानुयोगः, तथा हि- जीवद्रव्यस्य कर्त्तुर्विचित्रक्रियासु साधकतमानि कालस्वभावनियतिपूर्वकृतानि, नैकाकी जीवः किञ्चन कर्त्तुमलमिति । मृद्रव्यं वा कुलालचक्रचीवरदण्डादिकं कारणकलापमन्तरेण न घटलक्षणं कार्यं प्रति घटत इति तस्य तानि करणानीति द्रव्यस्य करणानुयोगः । द्रव्यं 5 ह्यर्पितं विशेषितं यथा जीवद्रव्यं किंविधं ? संसारीति, संसार्यपि सरूपं तदपि पञ्चेन्द्रियं तदपि नररूपमित्यादि, अनर्पितमविशेषितमेत्र, यथा जीवद्रव्यमिति ततश्चार्पितञ्च तदनर्पितश्चेत्यर्पितानर्पितं द्रव्यं भवतीति द्रव्यानुयोगः । तथा भावितं - वासितं द्रव्यान्तरसंसर्गतः, अभावितमन्यथैव । यथा जीवद्रव्यं भावितं किञ्चित्, तच्च प्रशस्तभावितमितरभावितञ्च, प्रशस्तभावितं संविग्नभावितमप्रशस्तभावितमितरभावितम् । तद्विविधमपि वामनीयमवामनीयञ्च तत्र वामनीयं यत्संसर्गजं गुणं दोषं वा 10 संसर्गान्तरेण वमति, अवामनीयन्त्वन्यथा, अभावितं त्वसंसर्गप्राप्तं प्राप्तसंसर्गं वा वस्त्रतन्दुलकल्पं न वासयितुं शक्यमिति, एवं घटादिकं द्रव्यमपि ततश्च भावितं चाभावितञ्च भाविताभावितमेवंभूतो विचारो द्रव्यानुयोग इति । बाह्याबाह्यम्, तत्र जीवद्रव्यं बाह्यं चैतन्यधर्मेणाकाशास्तिकायादिभ्यो विलक्षणत्वात् तदेवाबाह्यममूर्त्तत्वादिना धर्मेणामूर्त्तत्वादुभयेषामपि चैतन्येन वाऽबाह्यं जीवास्तिकायात्, चैतन्यलक्षणत्वादुभयोरपि, अथवा घटादिद्रव्यं बाह्यं कर्मचैतन्यादित्वबाह्यमा- 15 ध्यात्मिकमिति यावत्, एवमन्यो द्रव्यानुयोगः । शाश्वताशाश्वतम् तत्र जीवद्रव्यमनादिनिधन - त्वाच्छाश्वतम्, तदेवापरापरपर्यायप्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोगः । यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्यग्दृष्टि जीवद्रव्यं तस्यैवावितथज्ञानत्वात्, अथवा यथा तद्वस्तु तथैव ज्ञानमवबोधः प्रतीतिर्यस्मिंस्तत्तथाज्ञानं घटादिद्रव्यं घटादितयैव प्रतिभासमानं जैनाभ्युपगतं वा परिणामि परिणामितयैव प्रतिभासमानमित्येवमन्यो द्रव्यानुयोगः । अतथाज्ञानं मिध्यादृष्टिजीवद्रव्यमलातद्रव्यं 20 वा वक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु, तथाहि एकान्तेन नित्यमनित्यं वा वस्तु तैर - भ्युपगतं प्रतिभाति च तत्परिणामितयेति तदतथाज्ञानमित्येवमन्यो द्रव्यानुयोग इति ॥ २२२ ॥ अथाज्ञानप्रस्तावान्मिथ्यात्वमाह - धर्माधर्ममार्गामार्ग जीवाजीव साध्वसाधुमुक्तामुक्तेषु विपर्ययसंज्ञा मिथ्यात्वम् ॥ २२३ ॥ धर्मेति, धर्मे - कषच्छेदादिशुद्धे सम्यक्श्रुते आप्तवचनलक्षणेऽधर्मसंज्ञा सर्व एव पुरुषा रागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहमिवेत्यादि प्रमाणतोऽनाप्ताः तदभावान्नेतदुपादिष्टं शास्त्रं धर्म इत्यादिकुविकल्पवशादन।गमबुद्धिरिति । अधर्मे श्रुतलक्षणविहीनत्वादनागमेऽपौरुषेयादौ धर्मसंज्ञा आगमबुद्धिर्मिध्यात्वं विपर्यस्तत्वादिति । मार्गेऽमार्गसंज्ञेति प्रतीतम् । अमार्गे निर्वृतिपुरीं प्रति अनध्वनि वस्तुतत्त्वापेक्षया विपरीतश्रद्धानज्ञानानुष्ठानरूपे मार्गसंज्ञा - कुवासनातो मार्गबुद्धिरिति । जीवेषु 30 पृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवा उच्छासादीनां प्राणिधर्माणामनुपलम्भात्, 25
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy