________________
[चतुर्थी
२५८
सूत्रार्थमुक्तावल्याम् सत्कं शरीरं यद्यद्भिन्नं भवति तदा हस्तशताभ्यन्तरेऽस्वाध्यायिकं भवति, अथानुद्भिन्नं तथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं वय॑ते, परिष्ठापिते तु तत्र तत्स्थानं शुद्धं भवतीति ॥ २२० ॥
उपर्युक्तास्वाध्यायावर्जनेन सूक्ष्मजीवेष्ववतरन्तीति तद्भेदानाहप्राणपनकबीजहरितपुष्पाण्डलयनस्नेहगणितभङ्गसूक्ष्माणि सूक्ष्माणि ॥२२१॥ 6 प्राणेति, प्राणसूक्ष्म-अनुद्धरितकुन्थुः, पनकसूक्ष्मं उल्लीप्रभृति, बीजसूक्ष्मं ब्रीह्यादीनां नखिका, हरितसूक्ष्म-भूमिसमवणं तृणम् , पुष्पसूक्ष्म-वटादिपुष्पाणि, अण्डसूक्ष्म-कीटिकाद्यण्डकानि, लयनसूक्ष्म-कीटिकानगरादि, स्नेहसूक्ष्म-अवश्यायादि, गणितसूक्ष्म-गणितं जीवादीनां सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात् , श्रूयते च वज्रान्तं गणितमिति । भङ्गसूक्ष्म-भङ्गा-भङ्गकाः वस्तुविकल्पास्ते च द्विधा-तत्राद्यास्स्थानभंगका यथा-द्रव्यतो नामैका हिंसा न भावतः, अन्या भावतो न द्रव्यतः 10 अपरा भावतो द्रव्यतश्च, इतरा च न भावतो नापि द्रव्यत इति । इतरे क्रमभंगकास्तु-द्रव्यतो हिंसाभापतच, द्रव्यतोऽन्या न भावतः, न द्रव्यतोऽन्या भावतः, अन्या च द्रव्यतो न भावत इति, तल्लक्षणं सूक्ष्मं भङ्गसूक्ष्मम् , सूक्ष्मता चास्य भजनीयपदबहुत्वे गहनभावेन सूक्ष्मबुद्धिगम्यत्वादिति ॥ २२१॥
भङ्गद्वयस्य व्याख्यानाधीनत्वादनुयोगप्रकारानाह
द्रव्यमातृकापदैकार्थिककरणार्पितानर्पितभाविताभावितबाह्याबाह्य15 शाश्वताशाश्वततथाज्ञानाऽतथाज्ञानविषयो द्रव्यानुयोगः ॥ २२२ ॥
द्रव्येति, अनुयोजन-सूत्रस्यार्थेन सम्बन्धनम्, अनुकूलो वा योगः-सूत्रस्याभिधेयार्थ प्रति व्यापारोऽनुयोगः व्याख्यानमिति भावः, स च चतुर्धा व्याख्येयभेदात्, तद्यथा-चरणकरणानुयोगो धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चेति, तत्र द्रव्यजीवादेरनुयोगो-विचारो द्रव्यानुयोगः,
स च दशधा, तत्र यज्जीवादेव्यत्वं विचार्यते स द्रव्यानुयोगः यथा द्रवति गच्छति तांस्तान् पर्यायान् , 20 द्रूयते वा तैस्तैः पर्यायैरिति द्रव्यं गुणपर्यायवानित्यर्थः, तत्र सन्ति जीवे ज्ञानादयः सहभावित्वलक्षणा गुणाः, न हि तद्वियुक्तो जीवः कदाचनापि सम्भवति, जीवत्वहानेः, तथा पर्याया अपि मानुषत्वबाल्यादयः कालकृतावस्थालक्षणास्तत्र सन्त्येवेति, अतोऽसौ गुणपर्यायवत्त्वात् द्रव्यमित्यादिद्रव्यानुयोगः । मातृकेव मातृका, प्रवचनपुरुषस्योत्पादव्ययध्रौव्यलक्षणा पदत्रयी तस्या अनुयोगो यथा
उत्पादवजीवद्रव्यं बाल्यादिपर्यायाणामनुक्षणमुत्पत्तिदर्शनात् , अनुत्पादे च वृद्धाद्यवस्थानामप्राप्तिप्रस25 जादसमञ्जसापत्तेः, तथा व्ययवज्जीवद्रव्यं प्रतिक्षणं बालाद्यवस्थानां व्ययदर्शनादव्ययत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव, तथा यदि सर्वथाप्युत्पादव्ययवदेव तन्न केनापि प्रकारेण ध्रुवं स्यात्तदाऽ. कृताभ्यागमकृतविप्रणाशप्राप्त्या पूर्वदृष्टानुस्मरणाभिलाषादिभावानामभावप्रसङ्गेन च सकलेहलोकपरलोकालम्बनानुष्ठानानामभावतोऽसमञ्जसमेव ततो द्रव्यतयाऽस्य ध्रौव्यमित्युत्पादव्ययध्रौव्ययुक्तमतो
द्रष्यमित्यादिमातृकापदानुयोगः । एकश्वासावर्थश्वाभिधेयो जीवादिः स एषामस्ति त एकार्थिकाः 30 शब्दास्तैरनुयोगः कथनमित्यर्थः, एकाथिकानुयोगो यथा जीवद्रव्यं प्रति जीवः प्राणीभूतः सत्त्व