SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ मुक्ता] स्थानमुक्तासरिका। तत्र चन्द्रप्रभाऽऽवृत्ता संध्याऽपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, संध्याच्छेदे वाऽज्ञायमाने कालवेला न जानन्यतस्त्रीणि दिनानि प्रादोषिकं कालं न गृह्णन्ति ततः कालिकस्यास्वाध्यायः स्यात् । यक्षादीप्तमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति, धूमिका-महिकाभेदो वर्णतो धूमिका धूमाकारा धूम्रत्यर्थः, महिका-प्रतीता, एतच्च द्वयमपि कार्तिकादिषु गर्भमासेषु भवति, तच्च पतनानन्तरमेव सूक्ष्मत्वात्सर्वमप्यप्कायभावितं करोतीति, रजउद्धातः-विस्रसापरिणामतः समन्ताद्रेणु-5 पतनमिति ॥ २१९॥ पुनरप्यस्वाध्यायकालमाह अस्थिमांसशोणिताशुचिश्मशानसमीपचन्द्रसूर्यग्रहणपतनराजविग्रहवसतिमध्यगशरीराणि औदारिकस्यास्वाध्यायाः ॥ २२०॥ अस्थीति, औदारिकस्य मनुष्यतिर्यकशरीरस्य सम्बन्ध्यस्वाध्यायाः, अस्वाध्याये निमित्तभूत 10 मौदारिकमिति भावः । तत्रास्थिमांसशोणितानि प्रतीतानि । तत्र पञ्चेन्द्रियतिरश्चामस्वाध्यायिक द्रव्यतोऽस्थिमांसशोणितानि चर्म च, क्षेत्रतः षष्टिहस्ताभ्यन्तरे, कालतः सम्भवकालाद्यावत्तृतीया पौरुषी मार्जारादिभिर्मूषिकादिव्यापादनेहोरात्रश्च, भावतः सूत्रं नन्द्यादिकं नाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येयमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावत् , आर्तवं दिनत्रयं, स्त्रीजन्मनि दिनाष्टकं पुरुषजन्मनि दिनसप्तकम् , अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादशवर्षाणि 15 यावदस्वाध्यायिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिकं न भवति, भूमिनिखातान्यस्वाध्यायिकमिति । अशुचीन्यमेध्यानि मूत्रपुरीषाणि, तेषां समीपमस्वाध्यायिक भवति । श्मशानसमीपं-शवस्थानसमीपम्, चन्द्रग्रहणं-चन्द्रविमानस्य राहुविमानतेजसोपरञ्जनमेवं सूर्यग्रहणमपि, इह कालमानश्च-यदि चन्द्रः सूर्यो वा ग्रहणे सति सग्रहोऽन्यथा वा निमज्जति तदा ग्रहणकालं तद्रात्रिशेषं तदहोरात्रशेषश्च ततः परमहोरात्रञ्च वर्जयन्ति । आचरितन्तु यदि तत्रैव रात्रौ दिने वा 20 मुक्तः तदा चन्द्रग्रहणे तस्या एव रात्रेः शेषं परिहरन्ति, सूर्यग्रहणे तु तहिनशेषं परिहृत्यानन्तरं रात्रिमपि परिहरन्तीति । चन्द्रसूर्योपरागयोश्चौदारिकत्वं तद्विमानपृथिवीकायिकापेक्षयाऽवसेयमान्तरीक्षकत्वन्तु सदपि न विवक्षितम् । पतनं-मरणं राजामात्यसेनापतिग्रामभोगिकादीनाम् , तत्र यदा दण्डिकः कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा समयेऽनिर्भये स्वाध्यायं वर्जयन्तीति निर्भयश्रवणानन्तरमपि अहोरात्रं वर्जयन्तीति ग्राममहत्तरेऽधिकारनियुक्ते बहुस्खजने वा शय्यान्तरे वा पुरुषान्तरे 25 वा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायं वर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एते इति गहाँ लोको मा कार्षीदिति । राजविग्रहो-राज्ञां सङ्ग्रामः, उपलक्षणत्वात्सेनापतिप्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकम् , यत एते प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवतां छलयेन्निर्दुःखा एते इत्युड्डाहो वाऽप्रीतिकं वा भवेदित्यतो यद्विग्रहादिकं यच्चिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्यायं परिहरन्ति । वसति मध्यगशरीराणि-उपाश्रयस्य मध्ये वर्तमानमौदारिकं मनुष्यादि-30
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy