Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 285
________________ [चतुर्थी २५८ सूत्रार्थमुक्तावल्याम् सत्कं शरीरं यद्यद्भिन्नं भवति तदा हस्तशताभ्यन्तरेऽस्वाध्यायिकं भवति, अथानुद्भिन्नं तथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं वय॑ते, परिष्ठापिते तु तत्र तत्स्थानं शुद्धं भवतीति ॥ २२० ॥ उपर्युक्तास्वाध्यायावर्जनेन सूक्ष्मजीवेष्ववतरन्तीति तद्भेदानाहप्राणपनकबीजहरितपुष्पाण्डलयनस्नेहगणितभङ्गसूक्ष्माणि सूक्ष्माणि ॥२२१॥ 6 प्राणेति, प्राणसूक्ष्म-अनुद्धरितकुन्थुः, पनकसूक्ष्मं उल्लीप्रभृति, बीजसूक्ष्मं ब्रीह्यादीनां नखिका, हरितसूक्ष्म-भूमिसमवणं तृणम् , पुष्पसूक्ष्म-वटादिपुष्पाणि, अण्डसूक्ष्म-कीटिकाद्यण्डकानि, लयनसूक्ष्म-कीटिकानगरादि, स्नेहसूक्ष्म-अवश्यायादि, गणितसूक्ष्म-गणितं जीवादीनां सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात् , श्रूयते च वज्रान्तं गणितमिति । भङ्गसूक्ष्म-भङ्गा-भङ्गकाः वस्तुविकल्पास्ते च द्विधा-तत्राद्यास्स्थानभंगका यथा-द्रव्यतो नामैका हिंसा न भावतः, अन्या भावतो न द्रव्यतः 10 अपरा भावतो द्रव्यतश्च, इतरा च न भावतो नापि द्रव्यत इति । इतरे क्रमभंगकास्तु-द्रव्यतो हिंसाभापतच, द्रव्यतोऽन्या न भावतः, न द्रव्यतोऽन्या भावतः, अन्या च द्रव्यतो न भावत इति, तल्लक्षणं सूक्ष्मं भङ्गसूक्ष्मम् , सूक्ष्मता चास्य भजनीयपदबहुत्वे गहनभावेन सूक्ष्मबुद्धिगम्यत्वादिति ॥ २२१॥ भङ्गद्वयस्य व्याख्यानाधीनत्वादनुयोगप्रकारानाह द्रव्यमातृकापदैकार्थिककरणार्पितानर्पितभाविताभावितबाह्याबाह्य15 शाश्वताशाश्वततथाज्ञानाऽतथाज्ञानविषयो द्रव्यानुयोगः ॥ २२२ ॥ द्रव्येति, अनुयोजन-सूत्रस्यार्थेन सम्बन्धनम्, अनुकूलो वा योगः-सूत्रस्याभिधेयार्थ प्रति व्यापारोऽनुयोगः व्याख्यानमिति भावः, स च चतुर्धा व्याख्येयभेदात्, तद्यथा-चरणकरणानुयोगो धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चेति, तत्र द्रव्यजीवादेरनुयोगो-विचारो द्रव्यानुयोगः, स च दशधा, तत्र यज्जीवादेव्यत्वं विचार्यते स द्रव्यानुयोगः यथा द्रवति गच्छति तांस्तान् पर्यायान् , 20 द्रूयते वा तैस्तैः पर्यायैरिति द्रव्यं गुणपर्यायवानित्यर्थः, तत्र सन्ति जीवे ज्ञानादयः सहभावित्वलक्षणा गुणाः, न हि तद्वियुक्तो जीवः कदाचनापि सम्भवति, जीवत्वहानेः, तथा पर्याया अपि मानुषत्वबाल्यादयः कालकृतावस्थालक्षणास्तत्र सन्त्येवेति, अतोऽसौ गुणपर्यायवत्त्वात् द्रव्यमित्यादिद्रव्यानुयोगः । मातृकेव मातृका, प्रवचनपुरुषस्योत्पादव्ययध्रौव्यलक्षणा पदत्रयी तस्या अनुयोगो यथा उत्पादवजीवद्रव्यं बाल्यादिपर्यायाणामनुक्षणमुत्पत्तिदर्शनात् , अनुत्पादे च वृद्धाद्यवस्थानामप्राप्तिप्रस25 जादसमञ्जसापत्तेः, तथा व्ययवज्जीवद्रव्यं प्रतिक्षणं बालाद्यवस्थानां व्ययदर्शनादव्ययत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव, तथा यदि सर्वथाप्युत्पादव्ययवदेव तन्न केनापि प्रकारेण ध्रुवं स्यात्तदाऽ. कृताभ्यागमकृतविप्रणाशप्राप्त्या पूर्वदृष्टानुस्मरणाभिलाषादिभावानामभावप्रसङ्गेन च सकलेहलोकपरलोकालम्बनानुष्ठानानामभावतोऽसमञ्जसमेव ततो द्रव्यतयाऽस्य ध्रौव्यमित्युत्पादव्ययध्रौव्ययुक्तमतो द्रष्यमित्यादिमातृकापदानुयोगः । एकश्वासावर्थश्वाभिधेयो जीवादिः स एषामस्ति त एकार्थिकाः 30 शब्दास्तैरनुयोगः कथनमित्यर्थः, एकाथिकानुयोगो यथा जीवद्रव्यं प्रति जीवः प्राणीभूतः सत्त्व

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340