Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
मुक्ता] स्थानमुक्तासरिका।
२५१ आत्मना संयोगो बन्धः, कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानं मोक्षः । ननु जीवाजीवव्यतिरिक्ताः पुण्यादयो न सन्ति, तथाऽयुज्यमानत्वात् , तथा हि पुण्यपापे कर्मणी बन्धोऽपि तदात्मक एव, कर्म च पुद्गलपरिणामत्वादजीव एव, आश्रवस्तु मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स चात्मानं पुद्गलांश्च विरहय्य कोऽन्यः ?, संवरोऽप्याश्रवनिरोधो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपो निर्जरा तु कर्मपरिशाटो जीवः कर्मणां यत्पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहितः, तस्मा- 5 ज्जीवाजीवौ सत्पदार्थाविति, सत्यमेतत् , किन्तु यावेव जीवाजीवपदार्थों सामान्येनोक्तो तावेवेह विशेषतो नवधोक्ती, सामान्यविशेषात्मकत्वाद्वस्तुनः, तथेह मोक्षमार्गे शिष्यः प्रवर्तनीयो न सङ्ग्रहाभिधानमात्रमेव कर्त्तव्यम् , स यदैवमाख्यायते आश्रवो बन्धो बन्धद्वारायाते च पुण्यपापे मुख्यानि तत्त्वानि संसारकारणानि, संवरनिर्जरे च मोक्षस्य तदा संसारकारणत्यागेनेतरत्र प्रवर्त्तते नान्यथेत्यतः षटोपन्यासः, मुख्यसाध्यख्यापनार्थश्च मोक्षस्येति ॥ २०५॥
10 __ अथ जीवस्य बाह्याभ्यन्तररोगोत्पत्तिकारणविशेषानाह
अत्यासनाहितासनातिनिद्रातिजागरणोच्चारनिरोधप्रस्रवणनिरोधाध्वगमनभोजनप्रतिकूलतेन्द्रियार्थविकोपनैः रोगोत्पत्तिः, निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानर्द्धिचक्षुरचक्षुरवधिकेवलदर्शनावरणानि दर्शनावरणीयं कर्म ॥ २०६ ॥
__ अत्यासनेति, सततोपवेशनमत्यासनम् , अननुकूलासनं टोलपाषाणादिकमहितासनम्, प्रकृत्यननुकूलभोजनं भोजनप्रतिकूलता, इन्द्रियार्थानां शब्दादिविषयाणां विपाक इन्द्रियार्थविकोपनम् , स्पष्टमन्यत् । रोगोत्पत्तिः शारीररोगोत्पत्तिरित्यर्थः । आन्तररोगकारणभूतकर्मविशेषभेदानाह-निद्रेति, सुखप्रबोधा स्वापावस्था निद्रा नखच्छोटिका मात्रेणापि यत्र प्रबोधो भवति, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रा, कार्येण व्यपदेशात् । दुःखप्रबोधा स्वापावस्था निद्रातिशायित्वान्निद्रानिद्रा, तस्यां ह्यत्यर्थमस्फुट-20 तरीभूतचैतन्यत्वाहुःखेन बहुभिर्घोलनादिभिः प्रबोधो भवत्यतः सुखप्रबोधनिद्रापेक्षयाऽस्या अतिशायिनीत्वम् , तद्विपाकवेद्या कर्मप्रकृतिरपि तथा, यस्यां स्वापावस्थायामुपविष्ट ऊर्ध्वस्थितो वा प्रचलति सा प्रचला, सा छुपविष्टस्योर्ध्वस्थितस्य वा घूर्णमानस्य स्वप्तुर्भवति, तथाविधविपाकवेद्या कर्मप्रकृतिरपि प्रचला । प्रचलाप्रचला हि चङ्क्रमणादि कुर्वतः स्वप्नुर्भवति, अतः स्थानस्थितस्वप्तभवां प्रचलामपेक्ष्यातिशायिनी, तद्विपाकगम्या कर्मप्रकृतिरपि तथा । यस्या जाग्रदवस्थाऽध्यवसितार्थसाधनविषया बह्व-25 भिकांक्षा भवति सा स्त्यानर्द्धिः, तस्यां हि सत्यां जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति, तद्भावे हि स्वप्नुः केशवार्द्धबलसदृशी शक्तिर्भवति, तदेवं निद्रापञ्चकं दर्शनावरणक्षयोपशमाल्लब्धात्मलाभानां दर्शनलब्धीनामावारकम् , दर्शनलब्धीनां मूलत एव लाभस्यावारकं चक्षुर्दर्शनादिकम् , चक्षुषा सामान्यग्राही बोधश्चक्षुर्दर्शनं तस्यावरणं चक्षुर्दर्शनावरणम् , तद्वर्जेन्द्रियचतुष्टयेन मनसा वा यद्दर्शनं तदचक्षुर्दर्शनं तदावरणमचक्षुर्दर्शनावरणम् , करणनिरपेक्षरूपिद्रव्यविषयं दर्शनमवधिदर्शनं तदावरणम् , 30 सकलवस्तुदर्शनं केवलदर्शनं तदावरणमित्येवं नवविधं दर्शनावरणम् ॥ २०६ ॥
15

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340