SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ मुक्ता] स्थानमुक्तासरिका। २५१ आत्मना संयोगो बन्धः, कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानं मोक्षः । ननु जीवाजीवव्यतिरिक्ताः पुण्यादयो न सन्ति, तथाऽयुज्यमानत्वात् , तथा हि पुण्यपापे कर्मणी बन्धोऽपि तदात्मक एव, कर्म च पुद्गलपरिणामत्वादजीव एव, आश्रवस्तु मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स चात्मानं पुद्गलांश्च विरहय्य कोऽन्यः ?, संवरोऽप्याश्रवनिरोधो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपो निर्जरा तु कर्मपरिशाटो जीवः कर्मणां यत्पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहितः, तस्मा- 5 ज्जीवाजीवौ सत्पदार्थाविति, सत्यमेतत् , किन्तु यावेव जीवाजीवपदार्थों सामान्येनोक्तो तावेवेह विशेषतो नवधोक्ती, सामान्यविशेषात्मकत्वाद्वस्तुनः, तथेह मोक्षमार्गे शिष्यः प्रवर्तनीयो न सङ्ग्रहाभिधानमात्रमेव कर्त्तव्यम् , स यदैवमाख्यायते आश्रवो बन्धो बन्धद्वारायाते च पुण्यपापे मुख्यानि तत्त्वानि संसारकारणानि, संवरनिर्जरे च मोक्षस्य तदा संसारकारणत्यागेनेतरत्र प्रवर्त्तते नान्यथेत्यतः षटोपन्यासः, मुख्यसाध्यख्यापनार्थश्च मोक्षस्येति ॥ २०५॥ 10 __ अथ जीवस्य बाह्याभ्यन्तररोगोत्पत्तिकारणविशेषानाह अत्यासनाहितासनातिनिद्रातिजागरणोच्चारनिरोधप्रस्रवणनिरोधाध्वगमनभोजनप्रतिकूलतेन्द्रियार्थविकोपनैः रोगोत्पत्तिः, निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानर्द्धिचक्षुरचक्षुरवधिकेवलदर्शनावरणानि दर्शनावरणीयं कर्म ॥ २०६ ॥ __ अत्यासनेति, सततोपवेशनमत्यासनम् , अननुकूलासनं टोलपाषाणादिकमहितासनम्, प्रकृत्यननुकूलभोजनं भोजनप्रतिकूलता, इन्द्रियार्थानां शब्दादिविषयाणां विपाक इन्द्रियार्थविकोपनम् , स्पष्टमन्यत् । रोगोत्पत्तिः शारीररोगोत्पत्तिरित्यर्थः । आन्तररोगकारणभूतकर्मविशेषभेदानाह-निद्रेति, सुखप्रबोधा स्वापावस्था निद्रा नखच्छोटिका मात्रेणापि यत्र प्रबोधो भवति, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रा, कार्येण व्यपदेशात् । दुःखप्रबोधा स्वापावस्था निद्रातिशायित्वान्निद्रानिद्रा, तस्यां ह्यत्यर्थमस्फुट-20 तरीभूतचैतन्यत्वाहुःखेन बहुभिर्घोलनादिभिः प्रबोधो भवत्यतः सुखप्रबोधनिद्रापेक्षयाऽस्या अतिशायिनीत्वम् , तद्विपाकवेद्या कर्मप्रकृतिरपि तथा, यस्यां स्वापावस्थायामुपविष्ट ऊर्ध्वस्थितो वा प्रचलति सा प्रचला, सा छुपविष्टस्योर्ध्वस्थितस्य वा घूर्णमानस्य स्वप्तुर्भवति, तथाविधविपाकवेद्या कर्मप्रकृतिरपि प्रचला । प्रचलाप्रचला हि चङ्क्रमणादि कुर्वतः स्वप्नुर्भवति, अतः स्थानस्थितस्वप्तभवां प्रचलामपेक्ष्यातिशायिनी, तद्विपाकगम्या कर्मप्रकृतिरपि तथा । यस्या जाग्रदवस्थाऽध्यवसितार्थसाधनविषया बह्व-25 भिकांक्षा भवति सा स्त्यानर्द्धिः, तस्यां हि सत्यां जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति, तद्भावे हि स्वप्नुः केशवार्द्धबलसदृशी शक्तिर्भवति, तदेवं निद्रापञ्चकं दर्शनावरणक्षयोपशमाल्लब्धात्मलाभानां दर्शनलब्धीनामावारकम् , दर्शनलब्धीनां मूलत एव लाभस्यावारकं चक्षुर्दर्शनादिकम् , चक्षुषा सामान्यग्राही बोधश्चक्षुर्दर्शनं तस्यावरणं चक्षुर्दर्शनावरणम् , तद्वर्जेन्द्रियचतुष्टयेन मनसा वा यद्दर्शनं तदचक्षुर्दर्शनं तदावरणमचक्षुर्दर्शनावरणम् , करणनिरपेक्षरूपिद्रव्यविषयं दर्शनमवधिदर्शनं तदावरणम् , 30 सकलवस्तुदर्शनं केवलदर्शनं तदावरणमित्येवं नवविधं दर्शनावरणम् ॥ २०६ ॥ 15
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy