SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावल्याम् [चतुर्थी दनपरं सम्यक्त्वम् , अज्ञानाद्यसारत्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमित्येवमर्थ लोकसारः, धूतं सङ्गानां त्यजनं तत्प्रतिपादकं धूतम् , मोहसमुत्थेषु परीषहोपसर्गेषु प्रादुर्भूतेषु विमोहो भवेत्तान सम्यक् सहेतेति यत्राभिधीयते स विमोहः, महावीरसेवितस्योपधानस्य तपसः प्रतिपादकं श्रुतमुपधानश्रुतमिति, महती परिज्ञा-अन्तक्रियालक्षणा सम्यग्विधेयेति प्रतिपादनपरं महापरिक्षेति नव ब्रह्मचर्याणि, ब्रह्म कुश5 लानुष्ठानं तच्च तश्चर्यमासेव्यञ्च ब्रह्मचर्य-संयमः, तत्प्रतिपादकाध्ययनानि आचारप्रथमश्रुतस्कन्धप्रतिबद्धानि ब्रह्मचर्याणीति ॥ २०३॥ ब्रह्मचर्यशब्देन मैथुनविरतिरप्यभिधीयत इति तद्गुप्तीराह विविक्तस्थानसेवनस्त्रीकथापरिवर्जनस्त्रीनिषद्यानासेवनमनोहरेन्द्रियाचिन्तनप्रणीतरसाभोजनातिमात्राहारवर्जनपूर्वक्रीडितास्मरणशब्दायननुपा10तित्वसातसुखाप्रतिबद्धत्वानि तद्गुप्तयः॥ २०४ ॥ विविक्तेति, स्त्रीपशुपण्डकेभ्यः पृथग्वर्त्तिनां शयनासनादिस्थानानामासेवको भवति ब्रह्मचारी, अन्यथा तद्वाधासम्भवात् , तस्माद्देवीनार्यादिसमाकीर्णस्थानासेवनं मनोविकारसम्भवान्न कार्यमित्येकं स्थानम् । स्त्रीकथापरिवर्जनम् , केवलानां स्त्रीणां धर्मदेशनादिलक्षणवाक्यप्रबन्धरूपां जातिरूपादिविषयां वा कथां यो न कथयति स ब्रह्मचारीति द्वितीयम् । स्त्रीनिषद्यानासेवनम्-येषु स्थानेषु 16 स्त्रियस्तिष्ठन्ति तत्रैकासने नोपविशेत् , उत्थितास्वपि तासु मुहूर्त यावन्नोपविशेदिति तृतीयम् । मनोहरेन्द्रियाचिन्तनम्-स्त्रीणां नयननासिकादीनि दृष्टमात्रतोऽनुचिन्तनादपि वा मनोहराणि नातिशयेन चिन्तयिता भवेत् किमहो लावण्यं तन्नयनयोरित्येवमिति चतुर्थम्।प्रणीतरसाभोजनम्-न गलस्नेहबिन्दुभोक्ता स्यादिति पञ्चमम् । अतिमात्राहारवर्जनम्-पानभोजनस्य रूक्षस्यापि 'अर्धमशनस्य सव्यञ्जनस्य कुर्या द्रव्यस्य द्वौ भागौ । वायुप्रविचारणार्थ षष्ठं भागमूनं कुर्यादिति प्रमाणातिक्रमेण नाहारको भवेत् खाद्य20 स्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वं विज्ञेयमिति षष्ठम् । पूर्वक्रीडितास्मरणम्-गृहस्थावस्थायां कृतस्य स्त्रीसम्भोगाद्यनुभवस्य द्यूतादिरमणस्य च न स्मर्ता भवेदिति सप्तमम् । शब्दाद्यननुपातित्वम्-मर्मभाषितादिकमभिष्वङ्गहेतुं रूपानुपातिनं ख्यात्यनुपातिनं वा न वदेदित्यष्टमम् । सातसुखाप्रतिबद्धत्वं-साताख्यपुण्यप्रकृतेः सकाशाद्यत्सौख्यं गन्धरसस्पर्शलक्षणं विषयसम्पाद्यं तत्परो न भवेत् , उपशमसौख्यप्रतिबद्धत्वस्यात्र निषेध इति नवममित्येवं नव ब्रह्मचर्यस्य मैथुनव्रतस्य गुप्तयो रक्षाप्रकाराः ॥ २०४॥ 25 सम्यग्जीवादिपदार्थविज्ञाने ब्रह्मचर्यस्य निष्पत्तेः पदार्थविभागमाह जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षा नव सत्पदार्थाः ॥ २०५॥ जीवेति, सद्भूताः पदार्थाः सत्पदार्थाः पारमार्थिकवस्तूनीत्यर्थः, सुखज्ञानोपयोगलक्षणो जीवः, ज्ञानदर्शनसुखादिपर्यायवानित्यर्थः, तेन सिद्धानामपि सङ्गहः, न तु दशविधप्राणधारी सिद्धे तदभावात् , तद्विपरीतोऽजीवो रूप्यरूपिस्वरूपः, पुद्गला रूपवन्तोऽजीवाः, धर्मादयोऽरूपिणोऽजीवाः । पुण्यं शुभ30 प्रकृतिरूपं कर्म, पापं तद्विपरीतम्, आश्रूयते गृह्यते कर्मानेनेत्याश्रवः शुभाशुभकर्मादानहेतुः । संवरो गुप्त्यादिभिराश्रवनिरोधः, विपाकात्तपसा वा कर्मणां देशतः क्षपणा निर्जरा, आश्रवगृहीतस्य कर्मण
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy