________________
૨૧૨ सूत्रार्थमुक्तावल्याम्
[चतुर्थी उपर्युक्तकर्मणां विकृतिभोगाधिक्याद्भावाद्विकृतीराह
क्षीरदधिनवनीतसर्पिस्तैलगुडमधुमद्यमांसानि नवस्रोतःपरिस्रवलक्षणशरीरस्योपचयहेतवो विकृतयः ॥ २०७॥
क्षीरेति, क्षीरं पञ्चधा अजैडकागोमहिष्युष्ट्रीभेदात् , दधिनवनीतघृतानि चतुधैव, उष्ट्रीणां । तदभावात् तैलं चतुर्धा तिलातसीकुसुम्भसर्षपभेदात् , गुडो द्विधा द्रवपिण्डभेदात् , मधु त्रिधा माक्षिककौन्तिकभ्रामरभेदात् , मद्यं द्विधा काष्ठपिष्टभेदात्, मांसं त्रिधा जलस्थलाकाशचरभेदादिति, एतानि नव पुरुषापेक्षया नवभिः स्रोतोभिश्छिद्रैः कर्णनयननासिकास्योपस्थपायुखरूपैः परिस्रवतिमलं क्षरतीति नवस्रोतःपरिस्रवलक्षणं शरीरमौदारिकमेव, तस्योपचयहेतवो विकृतयो विकारकारित्वादिति ॥ २०७॥ 10 एवंविधशरीरेण कदाचित् पुण्यमप्युपादीयत इति तद्भेदानाहअन्नपानवस्त्रगृहसंस्तारकमनोवचःकायनमस्कारपुण्यानि पुण्यभेदाः ॥२०॥
अन्नेति, पात्रायान्नदानाद्यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, मनसा गुणिषु तोषाद्वचसा प्रशंसनात् , कायेन पर्युपासनान्नमस्काराच्च यत्पुण्यं तन्मनःपुण्यादीनि, उक्तञ्च 'अन्नं
पानञ्च वस्त्रञ्च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः पुण्यं नवविधं स्मृत' मिति ॥ २०८ ॥ 15 पुण्यविपर्ययरूपस्य पापस्य कारणभूतानि श्रुतान्याह
- उत्पातनिमित्तमनमातङ्गायुर्वेदकलावास्त्वज्ञानमिथ्याप्रवचनानि पापश्रुतानि ॥ २०९॥
उत्पातेति, उत्पात:-प्रकृतिविकाररूपः सहजरुधिरवृष्ट्यादि तत्प्रतिपादनपरं शास्त्रमपि तथा राष्ट्रोत्पातादि, निमित्तं अतीतादिपरिज्ञानोपायं शास्त्रं कूटपर्वतादि, मत्रो मत्रशास्त्रं जीवोद्धरणगारुडादि, 20 मातङ्गविद्या-यदुपदेशादतीतादि कथयन्ति डोण्ड्यो बधिरा इति लोकप्रतीताः, आयुर्वेदश्चिकित्सा
शास्त्रम् , कला-लेखाद्याः गणितप्रधानाः शकुनरुतपर्यवसाना द्वासप्ततिस्तच्छास्त्राण्यपि तथा, वास्तुविद्या-भवनप्रासादनगरादिलक्षणशास्त्रं, अज्ञानं-लौकिकश्रुतं भारतकाव्यनाटकादि, मिथ्याप्रवचनं शाक्यादितीर्थिकशासनमिति, एतच्च सर्वमपि श्रुतं पापोपादानहेतुः संयतेन पुष्टालम्बनेन त्वासेव्यमानमपापश्रुतमेवेति ॥ २०९॥
एतच्छुतावलम्बिनो निपुणा भवन्तीति निपुणपुरुषाभिधानायाह__ संख्याननिमित्तकायिकपुराणप्रकृतिदक्षपरपंडितवादिभूतिकर्मचिकित्सका नैपुणिकाः ॥ २१०॥
संख्यानेति, संख्यानं-गणितं तद्योगात्पुरुषोऽपि तथा, गणितविषये निपुण इत्यर्थः, एवमग्रेऽपि, निमित्तं-चूडामणिप्रभृति, कायिक-शारीरिकमिडापिङ्गलादिप्राणतत्त्वमित्यर्थः, पुराणो वृद्धः 30 स च चिरजीवित्वादृष्टबहुविधव्यतिकरत्वान्नैपुणिकः, शास्त्रविशेषो वा पुराणं तज्ज्ञो निपुणप्रायो