________________
स्थानमुक्तासरिका।
मुका]
२५३ भवति, प्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनतया कर्तेति, परपण्डितो बहुशास्त्रज्ञो यस्य मित्रादिः पण्डितः स वा, अयं हि वैद्यकृष्णकवन्निपुणसंसर्गान्निपुणो भवति, वादी-वादलब्धिसम्पन्नो यः परेण न जीयते, मंत्रवादी वा धातुवादी वा, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्र निपुणः, चिकित्सकः, चिकित्सायां निपुणः, एते निपुणं सूक्ष्मं ज्ञानं तेन चरन्तीति नैपुणिकाः ॥ २१० ॥
सत्यायुषि नैपुण्यं भवतीति तत्परिणामानाह
गतितद्वन्धनस्थितितद्वन्धनोर्ध्वाधस्तिर्यग्दीर्घहखगमनपरिणामा आयुषः परिणामाः॥ २११ ॥
गतीति, गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीवं प्रापयति स आयुषो गतिपरिणामः, येनायुःस्वभावेन प्रतिनियतगतिकर्मबन्धो भवति यथा नरकायुःस्वभावेन मनुष्यतिर्यग्गतिनामकर्मणी बध्नाति न देवनरकगतिनामकर्मणीति स गतिबन्धनपरिणामः, आयुषो या अन्तर्मुहूर्तादि त्रयस्त्रिंश- 10 त्सागरोपमान्ता स्थितिर्भवति स स्थितिपरिणामः, येन पूर्वभवायुःपरिणामेन परभवायुषो नियतां स्थिति बध्नाति स स्थितिबन्धनपरिणामः, यथा तिर्यगायुःपरिणामेन देवायुष उत्कृष्टतोऽप्यष्टादशसागरोपमाणीति, येनायुःस्वभावेन जीवस्योर्ध्वदिशि गमनशक्तिलक्षणः परिणामो भवति स ऊर्ध्वगमनपरिणामः, एवमधोगमनपरिणामतिर्यग्गमनपरिणामौ भाव्यौ, यत आयुःस्वभावाजीवस्य दीर्घ-दीर्घगमनतया लोकान्ताल्लोकान्तं यावद्गमनशक्तिर्भवति स दीर्घगमनपरिणामः । यस्माच हवं गमनं स हस्व-15 गमनपरिणामः, इत्येते कर्मप्रकृतिविशेषस्यायुषः परिणामः-स्वभावः शक्तिधर्म इति ॥ २११ ॥
___ यावन्नोकषायमायुषःपरिणामा भवन्तीति तानाहस्त्रीपुरुषनपुंसकवेदहास्यरत्यरतिभयशोकजुगुप्सा नव नोकषायाः॥२१२॥ ।
स्त्रीति, कषायैः क्रोधादिभिः सहचरा नोकषायाः, केवलानां नैषां प्राधान्यं किन्तु यैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीति नोकषायवेदनीयभेदा इत्यर्थः, 20 यदुदयेन स्त्रियाः पुंस्यभिलाषः पित्तोदयेन मधुराभिलाषवत् स फुफकाग्निसमानः स्त्रीवेदः, यदुदयेन पुंसः स्त्रियामभिलाषः श्लेष्मोदयादम्लाभिलाषवत् स तृणाग्निज्वालासमानः पुंवेदः, यदुदयेन नपुंसकस्य स्त्रीपुंसयोरुभयोरमिलाषः पित्तश्लेष्मणोरुदये मजिताभिलाषवत् स महानगरदाहानिसमानो नपुंसकवेदः । यदुदयेन सनिमित्तमनिमित्तं वा हसति तत्कर्म हास्यम् । यदुदयेन सचित्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते तद्रतिकर्म, यदुदयेन तेष्वेवारतिरुत्पद्यते तदरतिकर्म, यदुदयेन भयवर्जितस्यापि 25 जीवस्येहलोकादिसप्तप्रकारं भयमुत्पद्यते तद्भयकर्म, यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिः शोको जायते तच्छोककर्मेति, यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तज्जुगुप्साकर्मेति ॥ २१२ ॥
नोकषायवतो लोके पुनःपुनरुत्पादावश्यम्भावात् सदा लोकस्थितिरित्याह
तत्रैव पुनर्जननं सततं कर्मणो मोहनीयस्य वा बन्धनं जीवाजीवावैपरीत्यं त्रसस्थावराव्यवच्छेदो लोकालोकावैपरीत्यं तयोरन्योऽन्याननुप्र-30