Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
मुक्ता] स्थानमुक्तासरिका।
२५५ पृथिव्यप्तेजोवायुवनस्पतिकायद्वित्रिचतुःपञ्चेन्द्रियाजीवकायविषयों संयमासंयमौ ॥ २१६ ॥
पृथिवीति, सुगमं सूत्रम् । संयम्यते नियम्यते आत्मा पापव्यापारसम्भारादनेनेति संयमः, पृथिव्यादिविषयेभ्यः संघट्टपरितापनोपद्रवणेभ्य उपरमो वा, अजीवकायसंयमश्च पुस्तकादीनां ग्रहणपरिभोगोपरमः । एतद्विपर्ययरूपोऽसंयमः ॥ २१६ ॥ संयमश्च चारित्रभेद इति प्रव्रज्याभेदानाह
छन्दरोषपरिघुवनप्रतिश्रुतस्मरणरोगानादरदेवसंज्ञप्तिवत्सानुबन्धैः प्रव्रज्याः ॥ २१७॥
छन्देति, स्वकीयाभिप्रायविशेषः छन्दः तस्मात् प्रव्रज्या गृह्यते गोविन्दवाचकस्येव, सुन्दरीनन्दनस्येव वा, परकीयाद्वा भ्रातृवशभवदत्तस्येव । रोषात् शिवभूतेरिव, परिघुना-दारिद्र्येण काष्ठहा- 10 रकस्येव, स्वप्नात् पुष्पचूलाया इव, प्रतिश्रुतात्-प्रतिज्ञानात्-शालिभद्रभगिनीपतिधन्यकस्येव, स्मरणात् मल्लिनाथस्मारितजन्मान्तराणां प्रतिबुद्ध्यादिराज्ञामिव, रोगात्-सनत्कुमारस्येव, अनादरात्-नन्दिषेणस्येव, देवप्रतिबोधनात्-मेतार्यादेरिव, वत्सः-पुत्रतदनुबन्धात् वैरस्वामिमातुरिव ॥ २१७ ॥
प्रव्रज्याया जीवपरिणामविशेषत्वादन्यानपि तत्परिणामविशेषान् तद्विपरीतस्वरूपस्याजीवस्य च पर्यायविशेषानाह
गतीन्द्रियकषायलेश्यायोगोपयोगज्ञानदर्शनचारित्रवेदपरिणामा जीवस्य, बन्धनगतिसंस्थानभेदवर्णरसगन्धस्पर्शागुरुलघुशब्दपरिणामा अजीवस्य ॥ २१८॥
गतीति, परिणमनं परिणामस्तद्भावगमनमित्यर्थः, यदाह 'परिणामो यर्थान्तरगमनं न च सर्वथा व्यवस्थानं । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥ इति, द्रव्यार्थनयस्येति शेषः 'सत्प-20 र्यायेण नाशः प्रादुर्भावोऽसता च पर्ययतः । द्रव्याणां परिणामः प्रोक्तः खलु पर्ययनयस्य ॥ इति, तत्र जीवस्य परिणामो जीवपरिणामः स च प्रायोगिकः, तत्र गतिरेव परिणामो गतिपरिणामः, एवं सर्वत्र, गतिश्चेह गतिनामकर्मोदयान्नारकादिव्यपदेशहेतुः, तत्परिणामश्चाभवक्षयादिति, स च नरकगत्यादिश्चतुर्विधः, गतिपरिणामे च सत्येवेन्द्रियपरिणामो भवति, स चेन्द्रियपरिणामः श्रोत्रादिभेदात् पञ्चधा, इन्द्रियपरिणती चेष्टानिष्टविषयसम्बन्धाद्रागपरिणतिरिति कषायपरिणामः स च क्रोधादिभेदा- 25 चतुर्विधः, कषायपरिणामे सति लेश्यापरिणतिर्न तु लेश्यापरिणतो कषायपरिणतिः, येन क्षीणकषायस्यापि शुक्ललेश्यापरिणतिर्देशोनपूर्वकोटिं यावद्भवति, स च लेश्यापरिणामः कृष्णादिभेदात् षोढा, अयश्च योगपरिणामे सति भवति यतो निरुद्धयोगस्य लेश्यापरिणामोऽपैति, स योगपरिणामो मनोवाक् कायभेदात्रिधा, संसारिणाश्च योगपरिणतावुपयोगपरिणतिर्भवति स च साकारानाकार भेदाद्विधा, सति चोपयोगपरिणामे ज्ञानपरिणामो भवति स चाभिनिबोधिकादिभेदात् पञ्चधा, तथा मिथ्यादृष्टेनिमप्य-30
15

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340