SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ मुक्ता] स्थानमुक्तासरिका। २५५ पृथिव्यप्तेजोवायुवनस्पतिकायद्वित्रिचतुःपञ्चेन्द्रियाजीवकायविषयों संयमासंयमौ ॥ २१६ ॥ पृथिवीति, सुगमं सूत्रम् । संयम्यते नियम्यते आत्मा पापव्यापारसम्भारादनेनेति संयमः, पृथिव्यादिविषयेभ्यः संघट्टपरितापनोपद्रवणेभ्य उपरमो वा, अजीवकायसंयमश्च पुस्तकादीनां ग्रहणपरिभोगोपरमः । एतद्विपर्ययरूपोऽसंयमः ॥ २१६ ॥ संयमश्च चारित्रभेद इति प्रव्रज्याभेदानाह छन्दरोषपरिघुवनप्रतिश्रुतस्मरणरोगानादरदेवसंज्ञप्तिवत्सानुबन्धैः प्रव्रज्याः ॥ २१७॥ छन्देति, स्वकीयाभिप्रायविशेषः छन्दः तस्मात् प्रव्रज्या गृह्यते गोविन्दवाचकस्येव, सुन्दरीनन्दनस्येव वा, परकीयाद्वा भ्रातृवशभवदत्तस्येव । रोषात् शिवभूतेरिव, परिघुना-दारिद्र्येण काष्ठहा- 10 रकस्येव, स्वप्नात् पुष्पचूलाया इव, प्रतिश्रुतात्-प्रतिज्ञानात्-शालिभद्रभगिनीपतिधन्यकस्येव, स्मरणात् मल्लिनाथस्मारितजन्मान्तराणां प्रतिबुद्ध्यादिराज्ञामिव, रोगात्-सनत्कुमारस्येव, अनादरात्-नन्दिषेणस्येव, देवप्रतिबोधनात्-मेतार्यादेरिव, वत्सः-पुत्रतदनुबन्धात् वैरस्वामिमातुरिव ॥ २१७ ॥ प्रव्रज्याया जीवपरिणामविशेषत्वादन्यानपि तत्परिणामविशेषान् तद्विपरीतस्वरूपस्याजीवस्य च पर्यायविशेषानाह गतीन्द्रियकषायलेश्यायोगोपयोगज्ञानदर्शनचारित्रवेदपरिणामा जीवस्य, बन्धनगतिसंस्थानभेदवर्णरसगन्धस्पर्शागुरुलघुशब्दपरिणामा अजीवस्य ॥ २१८॥ गतीति, परिणमनं परिणामस्तद्भावगमनमित्यर्थः, यदाह 'परिणामो यर्थान्तरगमनं न च सर्वथा व्यवस्थानं । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥ इति, द्रव्यार्थनयस्येति शेषः 'सत्प-20 र्यायेण नाशः प्रादुर्भावोऽसता च पर्ययतः । द्रव्याणां परिणामः प्रोक्तः खलु पर्ययनयस्य ॥ इति, तत्र जीवस्य परिणामो जीवपरिणामः स च प्रायोगिकः, तत्र गतिरेव परिणामो गतिपरिणामः, एवं सर्वत्र, गतिश्चेह गतिनामकर्मोदयान्नारकादिव्यपदेशहेतुः, तत्परिणामश्चाभवक्षयादिति, स च नरकगत्यादिश्चतुर्विधः, गतिपरिणामे च सत्येवेन्द्रियपरिणामो भवति, स चेन्द्रियपरिणामः श्रोत्रादिभेदात् पञ्चधा, इन्द्रियपरिणती चेष्टानिष्टविषयसम्बन्धाद्रागपरिणतिरिति कषायपरिणामः स च क्रोधादिभेदा- 25 चतुर्विधः, कषायपरिणामे सति लेश्यापरिणतिर्न तु लेश्यापरिणतो कषायपरिणतिः, येन क्षीणकषायस्यापि शुक्ललेश्यापरिणतिर्देशोनपूर्वकोटिं यावद्भवति, स च लेश्यापरिणामः कृष्णादिभेदात् षोढा, अयश्च योगपरिणामे सति भवति यतो निरुद्धयोगस्य लेश्यापरिणामोऽपैति, स योगपरिणामो मनोवाक् कायभेदात्रिधा, संसारिणाश्च योगपरिणतावुपयोगपरिणतिर्भवति स च साकारानाकार भेदाद्विधा, सति चोपयोगपरिणामे ज्ञानपरिणामो भवति स चाभिनिबोधिकादिभेदात् पञ्चधा, तथा मिथ्यादृष्टेनिमप्य-30 15
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy