Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 274
________________ मुक्ता स्थानमुक्तासरिका । २४७ प्रत्यक्षादिप्रमाणाविषयत्वात्तदभावाच्च न पुण्यपापलक्षणं कर्म तदभावान्न परलोको मोक्षो वेति, अक्रियावादिता चास्य प्रत्यक्षाद्यप्रवृत्त्याऽऽत्मादीनां निराकर्तुमशक्यत्वात् , सत्यपि वस्तुनि प्रमाणाप्रवृत्तिदर्शनात् , आगमविशेषसिद्धत्वाच्च, नापि चैतन्यमुपलभ्यमानं भूतधर्मो भवितुमर्हति, विवक्षितभूताभावेऽपि जातिस्मरणादिदर्शनादिति, मतानामेषामष्टानां विस्तरतो निरूपणं प्रतिविधानश्च तत्त्वन्यायविभाकरसम्मतितत्त्वसोपानादौ द्रष्टव्यम् ॥ १९६ ॥ एते वादिनः शास्त्रपरिकर्मितमतयो भवन्ति, शास्त्रं च वचनविभक्तियोगेनार्थप्रतिपादकमिति वचनविभक्तीराह प्रथमादयोऽष्टौ वचनविभक्तयः॥ १९७॥ प्रथमादय इति, एकत्वद्वित्वबहुत्वलक्षणोऽर्थ उच्यते यैस्तानि वचनानि, विभज्यते कर्तत्वकर्मत्वादिलक्षणोऽर्थो यया सा विभक्तिः, वचनात्मिका विभक्तिर्वचनविभक्तिः सु औ जसित्यादि, कर्मादि-10 कारकशक्तिभिरधिकस्य लिङ्गार्थमात्रस्य यत्र प्रतिपादनं तत्र प्रथमा भवति, यथा स वा अयं वाऽऽस्ते अहं वा आसे इत्यादि । कर्तुः क्रियया व्याप्नुमिष्यमाणं कर्म तत्र द्वितीया यथा भण इमं श्लोकं घट ददाति ग्रामं यातीत्यादि । क्रियां प्रति साधकतमं करणं, तत्र तृतीया यथा-दानेन लभते धर्ममित्यादि । यस्मै सत्कृत्य प्रदाप्यते यस्मै वा सम्प्रदीयते स सम्प्रदानं, तत्र चतुर्थी यथा-भिक्षवे भिक्षां दापयति ददाति वेत्यादि । सम्प्रदानस्योपलक्षणत्वान्नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च चतुर्थी नमः शाखायै इत्यादि । 15 अपादीयते अपायतो-विश्लेषत आ-मर्यादया दीयते खण्ड्यते आदीयते-गृह्यते वा यस्मात्तदपादानं अवधिमात्रमित्यर्थः, तत्र पञ्चमी यथा-अपनय गृहाद्धान्यं कुशूलाद्गृहाणेति । स्वस्वामिसम्बन्धे षष्ठी भवति, यथा तस्यायं भृत्य इत्यादि । सन्निधीयते क्रियाऽस्मिन्निति सन्निधानमाधारस्तत्र सप्तमी विषयोपलक्षणत्वाच्चास्य काले भावे च क्रियाविशेषणेऽपि, तत्र सन्निधाने यथा तद्भक्तमिह पात्रे, तत्सप्तच्छदवनमिह शरदि पुष्यति, अत्र पुष्यनक्रिया शरदा विशेषिता, तत्कुटुम्बकमिह गवि दुह्यमाणायां गतम् , 20 अत्र गमनक्रिया गोदोहनभावेन विशेषितेति । आमंत्रणे प्रथमा, इयं विभक्तिरामंत्रणलक्षणार्थस्य कर्मकरणादिवल्लिङ्गार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्टमी विभक्तिरुक्ता यथा हे युवन्नित्यादि ॥ १९७ ॥ विशिष्टवचनरचनायाः शास्त्रत्वात्तद्विशेषायुर्वेदविभागमाह कुमारभृत्यदेहचिकित्साशालाक्यशल्यहत्याजाङ्गुलिभूतविद्याक्षारतत्ररसायनतन्त्रभेदा आयुर्वेदाः ॥ १९८॥ .. . 28 कुमारभृत्येति, आयुर्जीवितं तद्विदन्ति रक्षितुमनुभवन्ति चोपक्रमरक्षणे विदन्ति वा लभन्ते यथाकालं तेन तस्मात्तस्मिन् वेत्यायुर्वेदश्चिकित्साशास्त्रं तदष्टविधम् , यथा कुमारभृत्यं-बालकानां पोषणे योग्यं तद्धि तत्रं कुमारभरणक्षीरदोषसंशोधनाय दुष्टशून्यनिमित्तानां व्याधीनामुपशमनार्थञ्च भवति । देहचिकित्सा ज्वरादिरोगग्रस्तस्य देहस्य चिकित्साप्रतिपादकं तत्रम्, तद्धि मध्याङ्गसमाश्रितानां ज्वरातीसाररक्तशोफोन्मादप्रमेहकुष्ठादीनां शमनार्थमिति । शलाकायाः कर्म शालाक्यं तत्प्रतिपादकं 30 तसमेतद्धि ऊर्ध्ववकगतानां रोगाणां श्रवणवदननयनघ्राणादिसंश्रितानामुपशमनार्थमिति । शल्यस्योद्धारः

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340