________________
मुक्ता स्थानमुक्तासरिका ।
२४७ प्रत्यक्षादिप्रमाणाविषयत्वात्तदभावाच्च न पुण्यपापलक्षणं कर्म तदभावान्न परलोको मोक्षो वेति, अक्रियावादिता चास्य प्रत्यक्षाद्यप्रवृत्त्याऽऽत्मादीनां निराकर्तुमशक्यत्वात् , सत्यपि वस्तुनि प्रमाणाप्रवृत्तिदर्शनात् , आगमविशेषसिद्धत्वाच्च, नापि चैतन्यमुपलभ्यमानं भूतधर्मो भवितुमर्हति, विवक्षितभूताभावेऽपि जातिस्मरणादिदर्शनादिति, मतानामेषामष्टानां विस्तरतो निरूपणं प्रतिविधानश्च तत्त्वन्यायविभाकरसम्मतितत्त्वसोपानादौ द्रष्टव्यम् ॥ १९६ ॥
एते वादिनः शास्त्रपरिकर्मितमतयो भवन्ति, शास्त्रं च वचनविभक्तियोगेनार्थप्रतिपादकमिति वचनविभक्तीराह
प्रथमादयोऽष्टौ वचनविभक्तयः॥ १९७॥ प्रथमादय इति, एकत्वद्वित्वबहुत्वलक्षणोऽर्थ उच्यते यैस्तानि वचनानि, विभज्यते कर्तत्वकर्मत्वादिलक्षणोऽर्थो यया सा विभक्तिः, वचनात्मिका विभक्तिर्वचनविभक्तिः सु औ जसित्यादि, कर्मादि-10 कारकशक्तिभिरधिकस्य लिङ्गार्थमात्रस्य यत्र प्रतिपादनं तत्र प्रथमा भवति, यथा स वा अयं वाऽऽस्ते अहं वा आसे इत्यादि । कर्तुः क्रियया व्याप्नुमिष्यमाणं कर्म तत्र द्वितीया यथा भण इमं श्लोकं घट ददाति ग्रामं यातीत्यादि । क्रियां प्रति साधकतमं करणं, तत्र तृतीया यथा-दानेन लभते धर्ममित्यादि । यस्मै सत्कृत्य प्रदाप्यते यस्मै वा सम्प्रदीयते स सम्प्रदानं, तत्र चतुर्थी यथा-भिक्षवे भिक्षां दापयति ददाति वेत्यादि । सम्प्रदानस्योपलक्षणत्वान्नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च चतुर्थी नमः शाखायै इत्यादि । 15 अपादीयते अपायतो-विश्लेषत आ-मर्यादया दीयते खण्ड्यते आदीयते-गृह्यते वा यस्मात्तदपादानं अवधिमात्रमित्यर्थः, तत्र पञ्चमी यथा-अपनय गृहाद्धान्यं कुशूलाद्गृहाणेति । स्वस्वामिसम्बन्धे षष्ठी भवति, यथा तस्यायं भृत्य इत्यादि । सन्निधीयते क्रियाऽस्मिन्निति सन्निधानमाधारस्तत्र सप्तमी विषयोपलक्षणत्वाच्चास्य काले भावे च क्रियाविशेषणेऽपि, तत्र सन्निधाने यथा तद्भक्तमिह पात्रे, तत्सप्तच्छदवनमिह शरदि पुष्यति, अत्र पुष्यनक्रिया शरदा विशेषिता, तत्कुटुम्बकमिह गवि दुह्यमाणायां गतम् , 20 अत्र गमनक्रिया गोदोहनभावेन विशेषितेति । आमंत्रणे प्रथमा, इयं विभक्तिरामंत्रणलक्षणार्थस्य कर्मकरणादिवल्लिङ्गार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्टमी विभक्तिरुक्ता यथा हे युवन्नित्यादि ॥ १९७ ॥
विशिष्टवचनरचनायाः शास्त्रत्वात्तद्विशेषायुर्वेदविभागमाह
कुमारभृत्यदेहचिकित्साशालाक्यशल्यहत्याजाङ्गुलिभूतविद्याक्षारतत्ररसायनतन्त्रभेदा आयुर्वेदाः ॥ १९८॥
.. . 28 कुमारभृत्येति, आयुर्जीवितं तद्विदन्ति रक्षितुमनुभवन्ति चोपक्रमरक्षणे विदन्ति वा लभन्ते यथाकालं तेन तस्मात्तस्मिन् वेत्यायुर्वेदश्चिकित्साशास्त्रं तदष्टविधम् , यथा कुमारभृत्यं-बालकानां पोषणे योग्यं तद्धि तत्रं कुमारभरणक्षीरदोषसंशोधनाय दुष्टशून्यनिमित्तानां व्याधीनामुपशमनार्थञ्च भवति । देहचिकित्सा ज्वरादिरोगग्रस्तस्य देहस्य चिकित्साप्रतिपादकं तत्रम्, तद्धि मध्याङ्गसमाश्रितानां ज्वरातीसाररक्तशोफोन्मादप्रमेहकुष्ठादीनां शमनार्थमिति । शलाकायाः कर्म शालाक्यं तत्प्रतिपादकं 30 तसमेतद्धि ऊर्ध्ववकगतानां रोगाणां श्रवणवदननयनघ्राणादिसंश्रितानामुपशमनार्थमिति । शल्यस्योद्धारः