________________
सूत्रार्थमुक्तावल्याम्
[चतुर्थी 'अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥' इति, अथवा सामान्यवादी सर्वमेवैकं प्रतिपद्यते सामान्यस्यैकत्वादित्येवमनेकधैकत्ववादी, अक्रियावादिता चैषां तदन्यस्याभावप्रतिपादनात्, तत्तद्वादानां युक्त्यनुपपन्नानामभ्युपगमाच्च, एवमग्रेऽपि । तथा सत्यपि कथञ्चिदेकत्वे भावानां सर्वथाऽनेकत्वं वदतीत्यनेकत्ववादी, यथा परस्परविलक्षणा एव भावाः, तथैव प्रमीयमाणत्वात् , यथा रूपं रूपतयेति, अभेदे तु भावानां जीवाजीवबद्धमुक्तसुखितदुःखितादीनामेकत्वप्रसङ्गादीक्षादिवैयर्थ्यमिति । किश्च सामान्यमङ्गीकृत्यैकत्वं विवक्षितं परैः, सामान्यञ्च भेदेभ्यो भिन्नामिन्नतया विचार्यमाणं न घटते, एवमवयवेभ्योऽवयवी धर्मेभ्यश्च धर्मीयेवमनेकत्ववादी, अस्याप्यक्रियावादित्वं सामान्यादिरूपतयैकत्वे सत्यपि भावानां सामान्यादिनिषेधेन तन्निषेधनादिति, न च
सामान्यं सर्वथा नास्ति, अभिन्नज्ञानाभिधानाभावप्रसङ्गात् , सर्वथा वैलक्षण्ये चैकपरमाणुमन्तरेण 10 सर्वेषामपरमाणुत्वप्रसङ्गात् तथाऽवयविनं धर्मिणञ्च विना न प्रतिनियतावयवधर्मव्यवस्था स्यात् , भेदा
भेदविकल्पदूषणञ्च कथञ्चिद्वादाभ्युपगमेन निरवकाशमिति । जीवानामनन्तानन्तत्वेऽपि परिमितान् यो वदति स मितवादी, 'उत्सन्नभव्यकं भविष्यति भुवनमि'त्यभ्युपगमात् । अङ्गुष्ठपर्वमानं श्यामाकतन्दुलमात्रं वा मितं वदति न त्वपरिमितमसंख्येयप्रदेशात्मकतया, अङ्गुलासंख्येयादारभ्य यावल्लोकमापूरयतीत्येवमनियतप्रमाणतया वा, अथवा मितं सप्तद्वीपसमुद्रात्मकतया लोकं वदत्यन्यथाभूतम15 पीति मितवादीति, तस्याप्यक्रियावादित्वं वस्तुतत्त्वनिषेधनादेवेति । निर्मितमीश्वरब्रह्मपुरुषादिना कृतं
लोकं वदतीति निर्मितत्ववादी, प्रमाणयति च-बुद्धिमत्कारणकृतं भुवनं संस्थानवत्त्वात् , घटादिवदित्यादि, अक्रियावादित्वं चास्य 'न कदाचिदनीदृशं जगदिति वचनादकृत्रिमभुवनस्याकृत्रिमतानिषेधात् , नचेश्वरादिकर्तृकत्वं जगतोऽस्ति, कुलालादिकारकवैयर्थ्यप्रसङ्गात् , कुलालादिवच्चेश्वरादेर्बुद्धिमत्कारणस्यानीश्वरताप्रसङ्गात् , ईश्वरस्याशरीरतया कारणत्वासम्भवात् सशरीरत्वे तच्छरीरस्यापि सशरीरकर्जन्तरेणा20 सम्भवात्तथाविधस्य कल्पनेऽनवस्थाप्रसङ्गाच । तथा सुखस्यैव वादी, सुखमेव ह्यनुशीलनीयं सुखार्थिना न तु दुःखरूपं तपोनियमब्रह्मचर्यादि, कारणानुरूपत्वात् कार्यस्य, न हि शुक्लैः तन्तुभिरारब्धो रक्तः पटो भवति, अपि तु शुक्ल एव, तथा सुखासेवनात्सुखमेवेति, अक्रियावादिता चास्य संयमतपसोः पारमार्थिकप्रशमसुखरूपयोर्दुःखत्वेनाभ्युपगमात्, कारणानुरूपकार्याभ्युपगमस्य च विषयसुखादननुरूपस्य निर्वाणस्याभ्युपगमेन बाधितत्वादिति । समुच्छेदवादी-उत्पत्त्यनन्तरमेव निरन्वयविनाशितावादी क्षणि25 कवादीत्यर्थः नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाकारित्वासम्भवेनार्थक्रियाकारित्वलक्षणसत्त्वस्य तत्रा
सम्भवादिति, अक्रियावादित्वश्चास्य क्षणिकत्वाभ्युपगमे परलोकाभावप्रसङ्गात् फलार्थिनाश्च क्रियावप्रवृत्तेः, सकलक्रियासु प्रवर्तकस्यासंख्येयसमयसंभव्यनेकवर्णोल्लेखवतो विकल्पस्य प्रतिसमयक्षयित्वे एकाभिसन्धिप्रत्ययाभावात् सकलव्यवहारोच्छेदाच्च । एवं नित्यत्ववादी-नित्यो हि लोकः, आविर्भावतिरो
भावमात्रत्वादुत्पादविनाशयोः, असतोऽनुत्पादाच्छशविषाणस्येव, सतश्चाविनाशाद्धटवत् , न हि सर्वथा 30 घटो विनष्टः, कपालाद्यवस्थाभिस्तस्य परिणतत्वात् , तासाश्चापारमार्थिकत्वान्मृत्सामान्यस्यैव पारमा.र्थिकत्वात्तस्य चाविनष्टत्वादिति, अक्रियावादिता चास्यैकान्तनित्यस्य स्थिरैकरूपतया सकलक्रियाविलोपाभ्युपगमाविति । एवं परलोकाभाववादी तु न विद्यते मोक्षो जन्मान्तरं वा, आत्मा हि नास्ति