Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 260
________________ मुक्ता] खानमुक्तासरिका। २३३ श्रुतसङ्ग्रहो भवत्विति प्रयोजनेन श्रुतं वाचनीयं शिक्षणीयञ्च, एवमेते भक्तपानवस्त्राद्युत्पादनसमर्थतयोपष्टम्भिता भवन्त्वित्युपग्रहार्थमेवं मे कर्मणां निर्जरणं भवत्विति निर्जरार्थमेवं वाचयतो मे ग्रन्थो जातविशेषः स्फुटतया भविष्यतीति श्रुतस्फुटतार्थं श्रुतस्याव्यवच्छित्त्या कालान्तरनयनार्थश्च वाचयेत् ॥१६७॥ ___ गणं धारयितुं योग्यं गुणिनमाहश्रद्धासत्यमेधाबहुश्रुतशक्त्यल्पाधिकरणवन्तो गणधारकाषद् ॥१६८॥ । श्रद्धेति, गच्छं मर्यादायां धारयितुं पालयितुंवा योग्यः श्रद्धावान् , अश्रद्धावतो हि स्वयममर्यादावर्तितया परेषां मर्यादास्थापनायामसमर्थत्वाद्गणधराहता न स्यात् । सद्भ्यो जीवेभ्यो हितं सत्यं तद्वान् , प्रतिज्ञातशुरो वा, एवम्भूतो हि पुरुषो गणपालक आदेयश्च स्यादिति । मेधावान् श्रुतग्रहणशक्तिमान् , एवं भूतो हि श्रुतमन्यतो झगिति गृहीत्वा शिष्याध्यापने समर्थो भवतीति । बहुश्रुतवान् यस्य सूत्रार्थरूपं श्रुतं प्रभूतं सः, अन्यथा हि गणानुपकारी स्यात् । शक्तिमान् शरीरमत्रतत्रपरिवारादि- 10 सामर्थ्ययुक्तः, स हि विविधास्वापत्सु गणस्यात्मनश्च निस्तारको भवति । अल्पाधिकरणवानल्समविद्यमानमधिकरणं स्वपरपक्षविषयो विग्रहस्तद्वान् स ह्यनुवर्तकतया गणस्याहानिकारको भवतीति ॥१६८॥ जीवानां दुर्लभ्यपर्यायविशेषानाह मानुषार्यक्षेत्रसुकुलजन्मार्हद्धर्मश्रवणश्रुतश्रद्धानसम्यक्संस्पर्शनानि न सुलभानि ॥ १६९ ॥ 16 मानुषेति, मनुष्यसम्बन्धिजन्म सर्वजीवानां न सुलभं न सुप्रापं कृच्छूलभ्यमित्यर्थः, न पुनरलभ्यं केषांचिजीवानां तल्लाभोपलम्भात् । उक्तञ्च 'ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥' इति । तथाऽऽर्यक्षेत्रेऽर्धषड्विंशतिजनपदरूपे जननं न सुलभम् , उक्तञ्च 'सत्यपि च मानुषत्वे दुर्लभतरमार्यभूमिसम्भवनम् । यस्मिन् धर्माचारप्रवणत्वं प्राप्नुयात् प्राणी ॥' इति, एवमिक्ष्वाकादिके सुकुले प्रभवो न सुलभः, उक्तञ्च 'आर्यक्षेत्रो- 20 त्पत्तौ सत्यामपि सत्कुलं न सुलभं स्यात् । सच्चरणगुणमणीनां पात्रं प्राणी भवति यत्र ॥' इति, तथा केवलिप्रज्ञप्तस्य धर्मस्य श्रवणत्वं दुर्लभम् यतोऽभिहितं 'सुलभा सुरलोकश्री रत्नाकरमेखला मही सुलभा। निर्वृतिसुखजनितरुचिर्जिनवचनश्रुतिर्जगति दुर्लभा॥' इति, श्रुतस्य श्रद्धानमपि दुर्लभम् , उक्तश्च 'कदाचिच्छ्रवणं लब्ध्वा श्रद्धा परमदुर्लभा । श्रुत्वा न्यायोपपन्नं मार्ग बहवः परिभ्रश्यन्ति ॥' इति. सामान्येन अद्धितस्योपपत्तिभिः प्रतीतस्य सम्यक् कायेन स्पर्शनं दुर्लभम् यदाह 'धर्ममपि तु श्रहधतां 25 दुर्लभा कायेन स्पर्शना । इह कामगुणेषु मूञ्छितानां समयं गौतम ! मा प्रमाद्यः' इति । एतेषां दुर्लभत्वश्च प्रमादाविप्रसक्तप्राणिनामेव, न सर्वेषाम् ॥ १६९ ॥ मनुष्यभेदानाह त्रिविधाः सम्मूर्छनजास्त्रिविधा गर्भव्युत्क्रान्तिकाश्च मनुष्याः, अर्हचक्रवर्तिबलदेववासुदेवचारणविद्याधरा ऋद्धिमन्तः ॥ १७० ॥ सू• मु. ३० 30

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340