Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 269
________________ २४२ सूत्रार्थमुक्तावल्याम् । [चतुर्थी - सम्यङिति, सम्यग्दर्शन-सम्यक्त्वं मिथ्यादर्शनं-मिथ्यात्वं सम्यअिध्यादर्शनं मिश्र, एतच्च त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोपशमोदयेभ्यो जायते तथाविधरुचिस्वभावञ्च, चक्षुदर्शनादि तु दर्शनावरणीयभेदचतुष्टयस्य यथासम्भवं क्षयोपशमक्षयाभ्यां जायते सामान्यग्रहणस्वभावश्च, तदेवं श्रद्धानसामान्यग्रहणयोर्दर्शनशब्दवाच्यत्वाद्दर्शनं सप्तधोक्तमिति ॥ १८८ ॥ । अथ विनयभेदानाह ज्ञानदर्शनचारित्रमनोवाकायलोकोपचाराश्रयो विनयः ॥ १८९ ॥ ज्ञानेति, विनीयतेऽष्टप्रकार कर्मानेनेति विनयः, ज्ञानमाभिनिबोधिकादि पञ्चधा तदेव विनयः, तस्य वा विनयो भक्त्यादिकरणं ज्ञानविनयः, 'भत्ती तह बहुमाणो तट्टित्थाण संम भावणया। विहिगहणब्भासोऽविय एसो विणओ जिणाभिहिओ ॥' इति । दर्शनं सम्यक्त्वं तदेव तस्य वा विनयः 10 दर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो दर्शनविनयः, 'सुस्सूसणा अणासायणा य विणओ उ दसणे दुविहो । दसणगुणाहिएK कज्जइ सुस्सूसणाविणओ ॥ सकारब्भुट्ठाणे सम्माणा सणअभिग्गहो तह य । आणसमणुप्पयाणं कीकम्मं अंजलिगहो य ॥ इंतस्सऽणुगच्छणया ठियस्स तह पजुवासणा भणिया । गच्छंताणुबयणं एसो सुस्सूसणाविणओ॥ इति, अनुचितक्रियाविनिवृत्तिरनाशातनाविनयः, अयं पञ्चदशविधः 'तित्थगर धम्म आयरिय वायगे थेर कुलगणे संघे । संभोगिय किरियाए 15 मइनाणाईण य तहेव' इति । चारित्रमेव विनयश्चारित्रस्य वा श्रद्धानादिरूपो विनयश्चारित्रविनयः 'सामाइयादिचरणस्स सहहणया तहेव कारणं । संफासणं परूवण मह पुरओ भवसत्ताणं ॥ इति । मनोवाकायविनयास्तु मनःप्रभृतीनां विनयाhषु कुशलप्रवृत्त्यादिः । 'मणवइकाइयविणओ आयरियाईण सबकालंपि । अकुसलाण निरोहो कुसलाणमुईरणं तहय ॥' इति, लोकानामुपचारो व्यवहारः तेन स एव वा विनयो लोकोपचारविनयो लोकोपचारश्च श्रुताद्यर्थिनाऽऽचार्यादिसमीपे आसितव्यं 20 पराभिप्रायानुवर्त्तिता श्रुतं प्रापितोऽहमनेनेति तस्य विनये वर्त्तनं भक्तादिनोपचारे कृते प्रसन्ना गुरवः प्रत्युपकरणं सूत्रादिदानतः करिष्यन्तीति भक्तादिदाने प्रयतितव्यं दुःखार्तस्यौषधादिगवेषणमवसरज्ञता सर्वेष्वर्थेष्वानुकूल्यमिति ॥ १८९॥ विनयात् कर्मघातो भवति स च समुद्धाते विशिष्टतर इति तत्प्ररूपयति- . वेदनाकषायमारणान्तिकवैकुर्विकतैजसाहारककेवलिभेदः समुद्धातः 2॥ १९० ॥ वेदनेति, हननं घातः, समित्येकीभावे, उदिति प्राबल्ये, एकीभावेन प्राबल्येन च घात:निर्जरा समुद्धातः, आत्मनो वेदनाकषायाद्यनुभवपरिणामेनैकीभावगमनम् , यदा ह्यात्मा वेदनीयाद्यनुभवज्ञानपरिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन कथं घातः ? यस्माद्वेदनीयादिसमुद्धातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये 30 प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशः सह संश्लिष्टान् शातयतीत्यर्थः । स च वेदनादिभेदेन सप्तधा भवति यथा-असद्वेचकर्माश्रयो वेदनासमुद्धातः, कषायाख्यचारित्रमोहनीयकर्माश्रयः कषायसमुद्धातः,

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340