________________
२४२
सूत्रार्थमुक्तावल्याम् ।
[चतुर्थी - सम्यङिति, सम्यग्दर्शन-सम्यक्त्वं मिथ्यादर्शनं-मिथ्यात्वं सम्यअिध्यादर्शनं मिश्र, एतच्च त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोपशमोदयेभ्यो जायते तथाविधरुचिस्वभावञ्च, चक्षुदर्शनादि तु दर्शनावरणीयभेदचतुष्टयस्य यथासम्भवं क्षयोपशमक्षयाभ्यां जायते सामान्यग्रहणस्वभावश्च, तदेवं श्रद्धानसामान्यग्रहणयोर्दर्शनशब्दवाच्यत्वाद्दर्शनं सप्तधोक्तमिति ॥ १८८ ॥ । अथ विनयभेदानाह
ज्ञानदर्शनचारित्रमनोवाकायलोकोपचाराश्रयो विनयः ॥ १८९ ॥
ज्ञानेति, विनीयतेऽष्टप्रकार कर्मानेनेति विनयः, ज्ञानमाभिनिबोधिकादि पञ्चधा तदेव विनयः, तस्य वा विनयो भक्त्यादिकरणं ज्ञानविनयः, 'भत्ती तह बहुमाणो तट्टित्थाण संम भावणया। विहिगहणब्भासोऽविय एसो विणओ जिणाभिहिओ ॥' इति । दर्शनं सम्यक्त्वं तदेव तस्य वा विनयः 10 दर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो दर्शनविनयः, 'सुस्सूसणा अणासायणा य विणओ उ दसणे दुविहो । दसणगुणाहिएK कज्जइ सुस्सूसणाविणओ ॥ सकारब्भुट्ठाणे सम्माणा सणअभिग्गहो तह य । आणसमणुप्पयाणं कीकम्मं अंजलिगहो य ॥ इंतस्सऽणुगच्छणया ठियस्स तह पजुवासणा भणिया । गच्छंताणुबयणं एसो सुस्सूसणाविणओ॥ इति, अनुचितक्रियाविनिवृत्तिरनाशातनाविनयः, अयं पञ्चदशविधः 'तित्थगर धम्म आयरिय वायगे थेर कुलगणे संघे । संभोगिय किरियाए 15 मइनाणाईण य तहेव' इति । चारित्रमेव विनयश्चारित्रस्य वा श्रद्धानादिरूपो विनयश्चारित्रविनयः 'सामाइयादिचरणस्स सहहणया तहेव कारणं । संफासणं परूवण मह पुरओ भवसत्ताणं ॥ इति । मनोवाकायविनयास्तु मनःप्रभृतीनां विनयाhषु कुशलप्रवृत्त्यादिः । 'मणवइकाइयविणओ आयरियाईण सबकालंपि । अकुसलाण निरोहो कुसलाणमुईरणं तहय ॥' इति, लोकानामुपचारो व्यवहारः
तेन स एव वा विनयो लोकोपचारविनयो लोकोपचारश्च श्रुताद्यर्थिनाऽऽचार्यादिसमीपे आसितव्यं 20 पराभिप्रायानुवर्त्तिता श्रुतं प्रापितोऽहमनेनेति तस्य विनये वर्त्तनं भक्तादिनोपचारे कृते प्रसन्ना गुरवः प्रत्युपकरणं सूत्रादिदानतः करिष्यन्तीति भक्तादिदाने प्रयतितव्यं दुःखार्तस्यौषधादिगवेषणमवसरज्ञता सर्वेष्वर्थेष्वानुकूल्यमिति ॥ १८९॥
विनयात् कर्मघातो भवति स च समुद्धाते विशिष्टतर इति तत्प्ररूपयति- .
वेदनाकषायमारणान्तिकवैकुर्विकतैजसाहारककेवलिभेदः समुद्धातः 2॥ १९० ॥
वेदनेति, हननं घातः, समित्येकीभावे, उदिति प्राबल्ये, एकीभावेन प्राबल्येन च घात:निर्जरा समुद्धातः, आत्मनो वेदनाकषायाद्यनुभवपरिणामेनैकीभावगमनम् , यदा ह्यात्मा वेदनीयाद्यनुभवज्ञानपरिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन कथं घातः ? यस्माद्वेदनीयादिसमुद्धातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये 30 प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशः सह संश्लिष्टान् शातयतीत्यर्थः । स च वेदनादिभेदेन सप्तधा
भवति यथा-असद्वेचकर्माश्रयो वेदनासमुद्धातः, कषायाख्यचारित्रमोहनीयकर्माश्रयः कषायसमुद्धातः,