________________
मुक्ता]
स्थानमुक्तासरिका।
२४३ अन्तर्मुहूर्तशेषायुष्ककर्माश्रयो मारणान्तिकसमुद्भातः, वैकुर्विकतैजसाहारकसमुद्धाताः शरीरनामकर्माश्रयाः, केवलिसमुद्धातस्तु सदसवेद्यशुभाशुभनामोच्चनीचैर्गोत्रकर्माश्रयः, तत्र वेदनासमुद्धातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशाटं करोति, कषायसमुद्धातसमुद्धतः कषायपुद्गलशाटं मारणान्तिकसमुद्धातसमुद्धत आयुष्कर्मपुद्गलघातं वैकुर्विकसमुद्धातसमुद्धतस्तु जीवप्रदेशान् शरीराबहिर्निष्काश्य शरीरविकम्भबाहल्यमात्रमायामतश्च संख्येयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियश- 5 रीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, एवं तैजसाहारकसमुद्धातावपि । केवलिसमुद्धातेन समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति । इहान्योऽष्टसामयिकः शेषास्त्वसंख्यातसामयिकाः । मनुष्याणामेव सप्त समुद्धाता भवन्ति ॥ १९० ॥
समुद्घातादीन् भगवदुक्तानन्यथा प्ररूपयन् प्रवचनबाह्यो भवतीति निहवानाह
बहुरतजीवप्रादेशिकाव्यक्तिकसामुच्छेदिकद्वैक्रियत्रैराशिकाबद्धिकाः 10 प्रवचननिहवाः ॥ १९१॥
बहुरतेति, प्रवचनमागममन्यथा प्ररूपयन्तीति प्रवचननिह्नवाः, यथा-बहुरताः-बहुषु समयेषु सक्ता दीर्घकालेन द्रव्यमुत्पद्यत इति प्ररूपिणः, एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयेन चोत्पत्तरिति । जीवप्रादेशिका जीवः प्रदेश एव येषान्ते जीवप्रदेशिकाश्चरमप्रदेशजीवप्ररूपिणः । अव्यक्तमस्फुटं वस्त्वभ्युपगमतो विद्यते येषान्तेऽव्यक्तिकाः संयताद्यवगमे संदिग्ध-15 बुद्धयः। समुच्छेदः प्रसूत्यनन्तरं निरन्वयविनाशस्तं ब्रुवत इति सामुच्छेदिकाः, क्षणक्षयिकभावप्ररूपकाः। द्वे क्रिये समुदिते वेदिनो द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिणः । जीवाजीवनोजीवभेदास्त्रयो राशयः समाहृतानिराशि तत्प्रयोजनं येषां ते त्रैराशिका राशित्रयख्यापकाः । स्पृष्टं जीवेन कर्म न स्कन्धबन्धवद्वद्धं तदेषामस्तीत्यबद्धिकाः स्पृष्टकर्मविपाकप्ररूपका इति ॥ १९१ ॥ ..
अथैकाकिविहारप्रतिमायोग्यमष्टस्थानाश्रयेणाह
श्रद्धासत्यमेधाबहुश्रुतशक्तिनिष्कलहधृतिवीर्यसम्पन्न एकाकिविहार- . प्रतिमायोग्यः ॥ १९२ ॥
श्रद्धेति, एकाकिनो विहारो प्रामादिचर्या स एव प्रतिमाऽभिग्रह एकाकिविहारप्रतिमा जिनकल्पप्रतिमा मासिक्यादिका वा भिक्षुप्रतिमा तदाश्रयेण प्रामादिषु चरितुं योग्य इत्यर्थः । श्रद्धा-तत्त्वेषु श्रद्धानमास्तिक्यमित्यर्थः, अनुष्ठानेषु वा निजोऽभिलाषस्तद्वत् सकलनाकिनायकैरप्यचलनीयसम्यक्त्व- 25 चारित्रमित्यर्थः । सत्यं-सत्यवादित्वं प्रतिज्ञाशूरत्वात् सद्भ्यो हितत्वाद्वा सत्यम् , मेधा-श्रुतमहण- . शक्तिः, बहुश्रुतं-प्रचुर आगमः सूत्रतोऽर्थतश्च, तच्चोत्कृष्टतोऽसम्पूर्णदशपूर्वधरं जघन्यतो नवमस्य तृलीयवस्तु, शक्तिः पञ्चविधा तुलना 'तपसा सत्त्वेन सूत्रेणैकत्वेन बलेन च । तुलना पञ्चधा उक्ता जिनकल्पं प्रतिपद्यमानस्य' इति । निष्कलहमल्पाधिकरणम् , धृतिश्चित्तस्वास्थ्यमरतिरत्यनुलोमप्रतिलोमोपसर्गसहत्वं, वीर्यमुत्साहातिरेकः, एवंविधगुणविशिष्टोऽनगारः सर्वप्राणिनां रक्षणक्षमो भवति स त्वे-30 काकियोग्यः ॥ १९२॥
20