SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४४ सूत्रार्थमुकापल्याम् [चतुर्थी ... उपर्युकगुणाभावे माया भवति तद्भावादनालोचना भवेदित्यत आह- कृतवत्ताकुर्वत्ताकरिष्यत्ताऽकीर्त्यवर्णापनयकीर्तियशःपरिहाणिभ्योऽतिचारं कृत्वाऽनालोचयति मायी ॥ १९३ ॥ कृतवत्तेति, अहमपराधं कृतवान् कृतत्वाच्च कथं तस्य निन्दादि युज्यते तथा साम्प्रतमपि 5 तमतिचारं करोमीति कीदृश्यनिवृत्तस्यालोचनादिक्रिया ? तथा करिष्याम्यहमिति न युक्तमालोचनादि, तथाऽकीर्तिः-एकदिग्गामिन्यप्रसिद्धिः, अवर्णोऽयशः-सर्वदिग्गामिन्यप्रसिद्धिरेतहयमविद्यमानं मे भविष्यत्यालोचनादौ कृते, तथाऽपनयः पूजासत्कारादेः स्यात् तथा कीर्तेः यशसश्च विद्यमानस्य हानिः स्यादित्यतिचारं विधायाऽपि मायावान् नालोचयति-न गुरवे निवेदयति, न मिथ्यादु कृतं ददाति नात्मानं गर्हते नातिचारान्निवर्त्तते न चातिचारकलङ्कस्य धावनं शुभभावजलेनापुनः 10 करणेनाभ्युत्थानं करोति न वा योग्यं प्रायश्चित्तं प्रतिपद्यते । यस्त्वासेवावसर एव मायी नालोचनाद्यवसरे स त्वपराधं विधाय जन्मेदं गर्हितं सातिचारत्वेन निन्दितत्वात् , देवजन्मापि मम गर्हितं किल्बिषिकादिरूपत्वात् , मनुष्यजन्मापि गर्हितं जात्यैश्वर्यरूपादिरहितत्वात्, न वा य एकमपि बह्वपि वा कृत्वा नालोचयति तस्य ज्ञानादिमोक्षमार्गाराधना, यस्त्वालोचनादि विधत्ते तस्यैवाऽऽराधना फलवती, तथाऽऽचार्योपाध्यायस्य मेऽतिशेष ज्ञानदर्शनं समुत्पद्येत स च मामालोचयेदिति भीत्या विभा10 व्यालोचनादि करोत्येवेति ॥ १९३ ॥ - आचार्यादिसमक्षमालोचना कार्येति तत्समृद्धिमाह आचारश्रुतशरीरवचनवाचनामतिप्रयोगसङ्ग्रहपरिज्ञाविषया गणिसम्पत् ॥ १९४ ॥ - आचारेति, समुदायो गुणानां साधूनां वा भूयानतिशयवान् गणः, सोऽस्यास्तीति गणी 20 आचार्यस्तस्य सम्पत् , समृद्धिर्भावरूपा गणिसम्पत् , तत्राचरणमाचारोऽनुष्ठानं स एव सम्पद्विभूतिः, तस्य वा सम्पत् सम्पत्तिः प्राप्तिः आचारसम्पत् सा च चतुर्धा-यथा संयमधुवयोगयुक्तता, चरणे नित्यं समाध्युपयुक्ततेत्यर्थः, असंप्रग्रहः-आत्मनो जात्याधुत्सेकरूपग्रहवर्जनम् , अनियतवृत्तिः-अनियतविहारः, वृद्धशीलता-वपुर्मनसो निर्विकारता, एवं श्रुतसम्पदपि चतुर्धा यथा-बहुश्रुतता-युगप्रधाना गमता, परिचितसूत्रता, विचित्रसूत्रता स्वसमयादिभेदात्, घोषविशुद्धिकरता चोदात्तादिविज्ञाना26 दिति शरीरसम्पञ्चतुर्धा यथा-आरोहपरिणाहयुक्तता-उचितदैर्ध्यविस्तारतेत्यर्थः, अनपत्रपता-अलज्जनीयानतेत्यर्थः, परिपूर्णेन्द्रियता, स्थिरसंहननता चेति । वचनसम्पञ्चतुर्धा यथा-आदेयवचनता मधुरवचनता, अनिश्रितवचनता-मध्यस्थवचनतेत्यर्थः, असंदिग्धवचनता चेति । वाचनासम्पञ्चतुर्धा यथा-विदिस्वोदेशनं, विदित्वा समुदेशनं पारिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः । परिनिर्वाप्य वाचना-पूर्वदत्ताला पकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः । अर्थनिर्यापणा-अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः । 30 मतिसम्पचतुर्धा, अवहेहापायधारणाभेदातू, प्रयोगसम्पञ्चतुर्धा इह प्रयोगो वादविषयः, वत्रात्मपरि
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy