________________
मुक्ता] स्थानमुक्तासारिका।
२४१ दयो गृहपतयश्च । गोत्रगोत्रवद्भ्योऽभेदादेवं निर्देशोऽन्यथा काश्यप गोत्रमिति वक्तव्यं स्यात् । गोतमस्यापत्यानि गौतमा क्षत्रियादयो यथा सुव्रतनेमी जिनौ नारायणपद्मवर्जवासुदेवबलदेवा इन्द्रभूत्यादिगणनाथत्रयं वैरस्वामी च । वत्सस्यापत्यानि वत्साः शय्यम्भवादयः, कुत्साः शिवभूत्यादयः, कोशिकाः षडुलुकादयः, मण्डोरपत्यानि मण्डवाः । वशिष्ठस्यापत्यानि वाशिष्ठाः षष्ठगणधरार्यसुहस्त्यादयः । एवं काश्यपादीनामवान्तराणि सप्त सप्त गोत्राणि भवन्ति ॥ १८५ ॥
अयं गोत्रविभागो नयविशेषमताद्भवतीति नयानाह- नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूता नयाः॥ १८६ ॥
नैगमेति, एते मूलनयाः सप्त, उत्तरनयास्तु सप्तशतानि भवन्ति । तथायं सङ्ग्रहश्लोकाः 'शुद्धं द्रव्यं समाश्रित्य सङ्ग्रहस्तदशुद्धितः । नैगमव्यवहारौ स्तः शेषाः पर्यायमाश्रिताः ॥ अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः। सद्रूपतानतिक्रान्तस्वस्खभाव-10 मिदं जगत् । सत्तारूपतया सर्व सङ्ग्रहन सङ्ग्रहो मतः ॥ व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद्व्यवहारयति देहिनः ॥ तत्रर्जुसूत्रनीतिः स्यात् शुद्धपर्यायसंस्थिता । नश्वरस्यैव भावस्य भावास्थितिवियोगतः ॥ अतीतानागताकारकालसंस्पर्शवर्जितम् । वर्तमानतया सर्वमृजुसूत्रेण सूयते ॥ विरोधिलिङ्गसंख्यादिभेदाद्भिन्नखभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ एकस्यापि ध्वने- 15 यांच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवम्भूतोऽभिमन्यते ॥” इति ॥ १८६ ॥
अण्डजादिजीवाः संसारिणस्तेषां संसरणमायुर्भेदे भवतीति तद्दर्शयति
अध्यवसायनिमित्ताहारवेदनापराघातस्पर्शश्वासोच्छ्वासा आयुरुपक्रमाः ॥ १८७॥
अध्यवसायेति, आयुषो जीवितव्यस्य उपक्रमाः स च सप्तविधनिमित्तमापितत्वात्सप्तविषा, 20 तत्राध्यवसानं-रागस्नेहभयात्मकोऽध्यवसायः, निमित्तं-दण्डकशाशस्त्रादीनि, तत्र सत्यायुर्मिघते, तथा-भोजनेऽधिके सति, तथा वेदना-नयनादिपीडा, पराघातो गर्भपातादिसमुत्थः, तथा स्पर्शः तथा विधमुजङ्गाविसम्बन्धी, उच्छासनिःश्वासौ निरुद्धावाश्रित्यायुषो भेदः, अयश्वायुर्मेदः सोपक्रमायुषामेव, नेतरेषाम् , न च तथासति कृतनाशोऽकृताभ्यागमश्च स्यात् , संवत्सरशतमुपनिबद्धस्यायुषोऽपान्तराल एव हि व्यपगमात् कृतनाशः, येन च कर्मणा तद्भिद्यते तस्याकृतस्यैवाभ्यागमः, एवञ्च मोक्षानाश्वासः 25 ततश्चारित्राप्रवृत्त्यादयो दोषाः स्युरिति वाच्यम्, यथाहि वर्षशतभोग्यभक्तमप्यमिकव्याधितस्याल्पेनापि कालेनोपभुजानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति ॥ १८७ ॥
अथ दर्शनभेदानाह
सम्यग्निथ्यासम्यमिथ्यादर्शनचक्षुरचक्षुरवधिकेवलदर्शनभेदं दर्शनम् ॥ १८८॥
मु. ३१
.30