________________
२४०
सूत्रार्यमुक्तावल्याम्
[चतुर्क मिति सप्तमम् । इह सर्वत्र स्वगुरु पृष्ट्वैव विसर्जितेनापक्रमितव्यम् , उक्तकारणवशात् पक्षादिकालात् परतोऽविसर्जितोऽपि गच्छेन्निष्कारणन्तु गणापक्रमणं न विधेयमिति ॥ १८१॥
अथ योन्याश्रयेण जीवानाहअण्डजपोतजजरायुजरसजसंखेदजसंमूछिमोद्भिजा जीवाः ॥ १८२ ॥
अण्डजेति, योनिभेदात्सप्तधा जीवाः, यथाऽण्डजाः पक्षिमत्स्यसर्पादयः पोतं-वस्त्रं तद्वजाताः, पोतादिव वा बोहित्थाज्जाता अजरायुवेष्टिता इत्यर्थो हस्तिवल्गुलीप्रभृतयः, जरायुजा मनुष्या गवादयश्च, रसे-तीमनकाञ्जिकादौ जाता रसजा ईलिकादयः संस्खेदजा यूकादयः, सम्मूच्छिमाः कृम्यादयः, उद्भिजा भूमिभेदाजाताः खञ्जनकादयः । एषां प्रत्येकं गत्यागती सप्तस्वेषु भवतः ॥१८२॥
___उक्तजीवसाधारणत्वाद्भयस्य तन्निरूपयति10 इह परलोकादानाकस्माद्वेदनामरणाश्लोका भयस्थानानि ॥ १८३ ॥
इहेति, भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामः तस्य स्थानान्याश्रयाः, यथा मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयम् , इहाधिकृतभीतिमतो जातौ लोक इहलोकस्ततो भयमिति व्युत्पत्तिः । तथा पराद्विजातीयात्तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयम् , आदानं धनं तदर्थं चौरादिभ्यो यद्भयं तदादानभयम् , अकस्मादेव बाह्यनिमित्तानपेक्षं 16 गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्यम् वेदना-पीडा तद्भयं वेदनाभयम् , मरणभयं प्रतीतम् , अश्लोकभयं अकीर्तिभयं, एवं हि क्रियमाणे महदयशो भविष्यतीति तद्यान्न प्रवर्तत इति ॥ १८३ ।।
छद्मस्थज्ञानोपायानाह
प्राणानामतिपातयिता मृषावादिताऽदत्तगृहीता शब्दादीनावादयिता पूजाद्यनुमोदयिता सावधप्रतिसेविताऽन्यथाकारी च छद्मस्थः ॥१८४॥ 20 प्राणानामिति, यतोऽयं प्राणानतिपातयत्यतोऽसौ छद्मस्थ इत्येवं सप्तभिहेतुभूतैः स्थानः
छमस्थं जानीयात् , अत्र प्रयोगोऽयं छद्मस्थः प्राणातिपातनादिति । केवली हि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वादप्रतिसेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवतीति, सर्वत्रैवं भावना कार्या । तथा मृषावादित्वाददत्तानां ग्रहणाच्छब्दस्पर्शरसरूपगन्धानामास्वादनात् परेण स्वस्य क्रियमाणस्य पूजासत्कारादेरनुमोदनात् सावद्यमाधाकर्मादिकं सपापमित्येवं प्रज्ञाप्य स्वयं तस्यैव प्रतिसेवनादन्यथाऽभि25 धायान्यथाकरणाच्च छनस्थो गम्यत इति । एतान्येव विपर्यस्तानि केवलिगमकानि भवन्तीति ॥१८४॥
केवलिनः प्रायो गोत्रविशेषवन्त एव भवन्तीति मूलगोत्रविभागमाह- . काश्यपगौतमवत्सकुत्सकौशिकमण्डववाशिष्ठा मूलगोत्राणि ॥१८५॥
काश्यपेति, तथाविधैकैकपुरुषप्रभवा मनुष्यसन्ताना गोत्राणि, उत्तरगोत्रापेक्षयाऽऽदिभूतानि गोत्राणि मूलगोत्राणि तानि सप्त, यथा काशे भवः काश्यो रसस्तं पीतवानिति काश्यपः, तदपत्यानि 30 काश्यपाः, मुनिसुव्रतनेमिवर्जा जिनाचक्रवादयश्च क्षत्रियाः सप्तमगणधरादयो द्विजा जम्बूस्खाम्या