________________
मुक्ता] स्थानमुक्तासरिका।
२३९ जातीति, जातिरेकेन्द्रियजात्यादिः पञ्चधा स एव नामकर्मण उत्तरप्रकृतिविशेषोजीवपरिणा. मो वा, जातिनाम्ना सह निधत्तं-निषिक्तं यदायुस्तज्जातिनामनिधत्तायुः, निषेकश्च कर्मपुद्गलानां प्रतिसमयमनुभवनरचना। एवं गतिर्नारकादिका चतुर्धा शेषं पूर्ववत , तथा स्थितिः यत्स्थातव्यं केनचिद्विवक्षितेन भावेन जीवेनायुः कर्मणा वा, सैव नामः परिणामो धर्मः स्थितिनाम, तेन विशिष्टं निधत्तं यदायुर्दलिकरूपं तस्थितिनामनिधत्तायुः। अथवा जातिनामगतिनामावगाहनामभिर्जातिगत्यवगाहनानां प्रकृति-5 मात्रं विवक्षितम् , स्थितिप्रदेशानुभागनामभिस्तासामेव स्थित्यादयो विवक्षिताः, ते च जात्यादिनामसम्बन्धित्वान्नामकर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति, स्थितिरूपं नामकर्म स्थितिनाम, ते न सह निधत्तं यदायुस्तत् स्थितिनामनिधत्तायुरिति । तथा अवगाहते यस्यां जीवः सोऽवगाहना शरीरमौदारिकादि, तस्या नाम-औदारिकादिशरीरनामकर्मेत्यवगाहनानाम, तेन सह यन्निधत्तमायुस्तवगाहनानामनिधत्तायुरिति । तथा प्रदेशानां-आयुःकर्मद्रव्याणां नाम तथाविधा परिणतिः, तेन सह 10 यन्निधत्तमायुस्तत्प्रदेशनामनिधत्तायुः। तथाऽनुभाग आयुर्द्रव्याणामेव विपाकः स एव नाम परिणामस्तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति । अथ किमर्थं जात्यादिनामकर्मणाऽऽयुर्विशिष्यते, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थम् , यस्मानारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति नारकादिभवोपग्राहकञ्चायुरेव, एतदुक्तम्भवति नारकायुःसंवेदनप्रथमसमय एव नारक इत्युच्यते तत्सहचारिणाञ्च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति । इह चायुबन्धस्य षड्डिधत्वे उप-15 क्षिप्ते यदायुषः षड्विधत्वमुक्तं तदायुषो बन्धाव्यतिरेकाद्बद्धस्यैव चायुर्व्यपदेशविषयत्वादिति, षड्विधोऽयमायुर्बन्धो नैरयिकादिवैमानिकान्तानाम् । नैरयिका नियमेन षण्मासावशिष्टायुष्काः परभविकायुर्वनन्ति, एवमसुरकुमारादिस्तनितकुमारान्ताः । तथा 'नैरयिकसुरा असंख्येयायुषस्तिर्यग्मनुष्याः शेषके तु षण्मासे । एकविकला निरुपक्रमायुषस्तिर्यग्मनुष्या आयुष्कतृतीयभागे ॥ अवशेषाः सोपक्रमास्तुतीयनवमसप्तविंशतितमे भागे । परभवायुर्बध्नन्ति निजभवे सर्वे जीवाः ॥ इति ॥ १८० ॥ 20
अथ गणापक्रमकारणानि सप्त प्राह
सर्वेषां केषाञ्चिद्वा धर्माणामभिरुचिविचिकित्सादानेभ्य एकाकिविहारप्रतिमामुपसम्पद्य विहाराय च गणापक्रमः प्रज्ञप्तः ॥ १८१ ॥
सर्वेषामिति, प्रयोजनभेदेन गणान्निर्गमस्तीर्थकरादिभिः प्रज्ञप्तः, तद्यथा-सर्वेषां धर्माणां निर्जराहेतुभूतानां श्रुतभेदानां सूत्रार्थोभयविषयाणामपूर्वग्रहणविस्मृतसन्धानपूर्वाधीतपरावर्तनरूपाणां 25 क्षपणवैयावृत्त्यरूपाणां चारित्रभेदानाञ्चाभिरुचिश्चिकीर्षा तत्प्रयोजनेनेत्येकं स्थानं बहुश्रुतादिसामग्र्यभावेन स्वगण एतेषामसंपत्तेः परगणे सम्पत्तेश्च गुरूनापृच्छय गच्छान्निर्गच्छेत् । तथा केषाञ्चिदेव श्रुतधर्माणां चारित्रधर्माणां वा चिकीर्षया न तु सर्वेषामिति द्वितीयम् । एवं सर्वधर्मविषयसंशयापनोदनाय स्वगणादपक्रमणमिति तृतीयम् , केषाश्चिद्धर्मविषयसंशयव्यपोहायेति चतुर्थम् , अन्येभ्यः सर्वेषां धर्माणां दानाय स्वगणे पात्राभावादिति पञ्चमम् , केषाश्चिद्धर्माणां दानायेति षष्ठम् ; तथैकाकिनो 30 गच्छनिर्गतस्य जिनकल्पिकादितया यो विहारो-विचरणं तस्य या प्रतिमा-प्रतिज्ञा तामङ्गीकृत्य विहर्नु