SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २३८ [ चतुर्थी 30 सूत्रार्थमुक्तावल्याम् अवचनेषु प्रायश्चित्तप्रस्तारो भवतीति तानाह— प्राणातिपातमृषावादादत्तादानाविरत्यपुरुषदासवादिनां कल्पप्रस्ताराः ॥ १७९॥ 5 प्राणातिपातेति, प्राणातिपातस्य वदनशीलः, प्राणातिपातस्य वाचं वदति साधौ प्रायश्चितस्य प्रस्तारो भवतीत्येकः । यथाऽन्यजन विनाशितदर्दुरे न्यस्तपादं भिक्षुमुपलभ्य क्षुल्लक आह- साधो ! दुर्दुरो भवता मारित इति, भिक्षुराह - नैवम्, क्षुल्लक आह- द्वितीयमपि व्रतं ते नास्ति, ततः क्षुल्लको भिक्षाचर्यातो निवृत्त्याचार्यसमीपमागच्छतीत्येकं प्रायश्चित्तस्थानम्, ततः साधयति यथा तेन दर्दुरो मारित इति प्रायश्चित्तान्तरम्, ततोऽभ्याख्यात साधुराचार्येणोक्तः - यथा दर्दुरो भवता मारितः, असावाह - नैवमिह क्षुल्लकस्य प्रायश्चित्तान्तरम्, पुनः क्षुल्लक आह- पुनरप्यपलपसीति, भिक्षुराह - गृहस्थाः 10 पृच्छयन्तामिति, वृषभा गत्वा पृच्छन्तीति प्रायश्चित्तान्तरमित्येवं योऽभ्याख्याति तस्य मृषावाददोष एव, यस्तु सत्यमारितं निह्नुते तस्य दोषद्वयमिति । मृषावादस्य वदनशीलः, मृषावादं वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्यर्थः, तथा हि- कचित् संखड्याम कालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ ततो मुहूर्त्तान्तरे रत्नाधिकेनोक्तम्- ब्रजामः संखड्यामिदानीं भोजनकालो यतस्तत्रेति, लघुर्भणति प्रतिषिद्धोऽहं न पुनर्व्रजामि, ततोऽसौ निवृत्त्याचार्यायेदमालोचयति यथा - अयं दीनकरुणवचनैर्याचते, प्रतिषिद्धोऽपि च 15 प्रविशत्येषणां प्रेरयतीत्यादि, ततो रत्नाधिकमाचार्यो भणति - साधो ! भवानेवं करोति ? स आहनैवमित्यादि, पूर्ववत् प्रस्तारः । एवमदत्तादानस्य वादं वदति, अत्र भावना - एकत्र गेहे भिक्षा लब्धा सा अवमेन गृहीता यावदसौ भाजनं संमार्ष्टि तावद्रत्नाधिकेन संखड्यां मोदका लब्धारतानवमो दृष्ट्वा निवृत्त्याचार्यस्यालोचयति यथाऽनेनादत्ता मोदका गृहीता इत्यादि, प्रस्तारः प्राग्वदिति । एवमविर - तिरब्रह्म तद्वादं वार्त्ता वा, अथवा न विद्यते विरतिर्यस्यास्साऽविरतिः स्त्री, तद्वादं तदासेवाभण20 नरूपां वा वार्ता वदति, तथाहि - अवमो भावयति एष रत्नाधिकतया मां स्खलितादिषु प्रेरयति, ततो रोषादभ्याख्याति स 'ज्येष्ठार्येणाकार्यं सद्य आर्यागृहे कृतमद्य । उपजीवितश्च भदन्त ! HS संस्पृष्टकल्पोऽत्र' ॥ इति, प्रस्तारभावना प्राग्वत् । अपुरुषो नपुंसक इत्येवं वाद वात वा वदति, भावनात्र - आचार्यं प्रत्याह- अयं साधुर्नपुंसक इति, आचार्य आह-कथं जानासि ? स आह - एतन्नि - जकैरहमुक्तः - किं भवतां कल्पते प्रत्राजयितुं नपुंसकमिति, ममापि किञ्चित्तलिङ्गदर्शनाच्छंका अस्तीति, 25 प्रस्तारः प्राग्वत् । तथा दासवादं वदति, भावना - कश्चिदाह - दासोऽयम्, आचार्य आह- कथम् ? स आह-देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तारः प्राग्वत्, एवं षड्विधान् प्रस्तारान् मासगुर्वादिपाराश्निकानभ्युपगमत आत्मनि प्रस्तुतान् विधायाभ्याख्यानदायक साधुरभ्याख्येयार्थस्यासद्भूततयाऽभ्याख्यानसमर्थनं कर्तुमशक्नुवन् स्वयमपि प्राणातिपातादिकर्तुरेव स्थानं प्राप्तः प्राणातिपातादिकारीव दण्डनीयः स्यादिति ॥ १७९ ॥ अथायुर्बन्धप्रकारानाह— जातिगतिस्थित्यवगाहनाप्रदेशानुभावनामनिधत्तायूंष्यायुर्बन्धाः ॥ १८० ॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy