SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ मुका] स्थानमुशासारिका। चर्यायां द्रव्यादिविषयतया चतुर्विधा अभिग्रहाः, अलेपकार्यायेव द्रव्यं प्रहीय इति द्रव्यता, परप्रामगृहपश्चकादिलब्धं द्रव्यं ग्रहीष्य इति क्षेत्रतः, पूर्वाहादाविति कालतः, गानादिप्रवृत्तालब्धमिति भावतः। क्षीरादीनां परित्यागो रसपरित्यागः । शरीरक्लेशनं कायक्लेशः स च वीरासनादिरनेकधा । गुप्तता प्रतिसंलीनता, सा चेन्द्रियकषाययोगविषया विविक्तशयनासनता वा बाह्यं तपः, आसेव्यमानस्यास्य लौकिकैरपि तपस्तया ज्ञायमानत्वात् , प्रायो बहिश्शरीरस्य तापकत्वाद्वा। आभ्यन्तरत्वश्च तपसो लौकिकैरन- 6 भिलक्ष्यत्वात् तत्रान्तरीयैश्च परमार्थतोऽनासेव्यमानत्वात् मोक्षप्राप्त्यन्तरङ्गत्वाच्च, प्रायश्चित्तमालोचनादि, विनयो ज्ञानादिभेदः, वैयावृत्त्यं धर्मसाधनार्थमन्नादिदानम् , स्वाध्यायो वाचनादिः, ध्यानमेकाप्रता-चित्तनिरोधः, व्युत्सर्गः परित्यागः, स च द्रव्यतो गणशरीरोपध्याहारविषयः, भावतः क्रोधादिविषयः ॥ १७६॥ सत्त्वानामनपायतः साधुना भिक्षाचर्या कार्येति षोढा तां दर्शयति 10 पेटार्धपेटा गोमूत्रिका पतङ्गवीथिका राजवृत्ता गत्वाप्रत्यागता च गोचरचर्या ॥ १७७॥ पेटेति, गोश्वरो गोचरस्तद्वच्चर्या गोचरचर्या, यथा गोरुच्चनीचतृणेष्वविशेषेण चरणं प्रवर्तते तथा यत्साधोररक्तद्विष्टस्योच्चनीचमध्यमकुलेषु धर्मसाधनदेहपरिपालनाय भिक्षार्थ चरणं सा गोचरचर्या, इयमेकस्वरूपाऽप्यभिप्रहविशेषात् षोढा, तत्र प्रथमा पेटा-वंशदलमयं वस्त्रादिस्थानं जन-15 प्रतीतम् , सा च चतुरस्रा भवति, ततश्च साधुभिरभिग्रहविशेषाद्यस्यां चर्यायां प्रामादिक्षेत्रं पेटावच्चतुरस्रं विभजन विहरति सा पेटेत्युच्यते, एवमर्द्धपेटापि । गोमूत्रणं गोमूत्रिका तद्वद्या सा, इयं हि परस्पराभिमुखगृहपंक्त्योरेकस्यां गत्वा पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण भावनीया । पतङ्गस्य शलभस्य वीथिकामार्गस्तद्वद्या सा, पतङ्गगतिय नियतकमा भवति, एवं याऽनाश्रितक्रमा सा तथा । शंखवत्-शंखभ्रमिवद्या वृत्ता सा शङ्खवृत्ता, द्विविधा सा, यस्यां क्षेत्रबहिर्भागात् शंखवृत्तत्वगत्याऽटन् 20 क्षेत्रमध्यभागमायाति साऽभ्यन्तरशंखा, यस्यां तु मध्यभागाद्वहिर्याति सा बहिःशंखा । उपाश्रयानिर्गतः सन्नेकस्यां गृहपंक्तौ भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्वितीयायां गृहपंक्तौ यस्यां भिक्षते सा गत्वाप्रत्यागतेति ॥ १७७ ॥ ___साधोर्यानि वचनानि वक्तुं न कल्पन्ते तान्याह अलीकहीलितखिंसितपरुषागारस्थितव्युपशमितोदीरणवचनानि नि-25 ग्रन्थस्याकल्प्यानि ॥ १७८ ॥ अलीकेति, प्रचलायसे किं दिवेत्यादिप्रश्ने न प्रचलाये इत्यादि अलीकवचनम्, सासूयं वचनं हीलितवचनम् यथा गणिन् ! वाचक ! ज्येष्ठार्येत्यादि । खिंसितं जन्मकर्माद्युद्धहनतः, परुषं यथा कौलिक इत्यादि यथा दुष्ट शैक्षेत्यादि । गृहिणां वचनमगारस्थितवचनं यथा पुत्र, मामक, भागिनेयेत्यादि । व्युपशमितस्य-उपशमितस्य पुनरुदीरणमिति ॥ १५८ ॥ 30
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy