SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थावरान् [ चतुर्थी आरभटेति, प्रत्युपेक्षणं प्रत्युपेक्षा, सा च द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र द्रव्यप्रत्युपेक्षणा वस्त्रपात्राद्युपकरणानामशनपानाद्याहाराणाश्च चक्षुर्निरीक्षणरूपा, क्षेत्रप्रत्युपेक्षणा कायोत्सर्गनिषदनशयनस्थानानां स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा, कालप्रत्युपेक्षणा उचितानुष्ठानकर - णार्थं कालविशेषस्य पर्यालोचना, भावप्रत्युपेक्षा धर्मजागरिकादिरूपा, तत्र प्रत्युपेक्षायां प्रमादः शैथि5 ल्यमाज्ञातिक्रमो वा प्रत्युपेक्षाप्रमादः, अनेन च प्रमार्जनाभिक्षाचर्यादिष्विच्छाकारमिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु यः प्रमादोऽसावुपलक्षितः, तस्यापि सामाचारी गतत्वेनैतत्प्रमादलक्षणाव्यभिचारित्वात् । आरभटा - वितथकरणरूपा, अथवा त्वरितं सर्वमारभमाणस्य, अथवाऽर्धप्रत्युपेक्षित एकत्र यदन्यान्य वस्त्रग्रहणं साऽऽरभटा, सा च वर्जनीया सदोषत्वादेवं सर्वत्र । यत्र वस्त्रस्य मध्यप्रदेशे संवलिताः कोणा भवन्ति यत्र वा प्रत्युपेक्षणीयोपधिवेण्टिकायामेवोपविश्य प्रत्यु - 10 पेक्षते सा संमर्दा | मोसली प्रत्युपेक्ष्यमाणवस्त्रभागेन तिर्यगूर्ध्वमधो वा घट्टनरूपा । प्रस्फोटना प्रकर्षेण धूननं रेणुगुण्ठितस्येव वस्त्रस्येति, विक्षिप्ता - वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यवनिकादौ यत्प्रक्षिपति वस्त्राचलादीनां वा यदूर्ध्वक्षेपणं सा । वेदिका पञ्च प्रकारा तत्रोर्ध्ववेदिका यत्र जानुनोरुपरि हस्तौ कृत्वा प्रत्यु - पेक्षते, अधोवेदिका जान्वोरधो हस्तौ निवेश्य, तिर्यग्वेदिका जान्वोः पार्श्वतो हस्तौ नीत्वा द्विधा वेदिका बाह्रोरन्तरे द्वे अपि जानुनी कृत्वा, एकतो वेदिका एक जानु बाहोरन्तरे कृत्वा, इति । उक्त15 विपरीतप्रत्युपेक्षणमाहाप्रमादेति, वस्त्रमात्मा वा न नर्त्तितं-न नृत्यवदिव कृतं यत्र तदर्त्तितम्, तत्र वस्त्रं नर्त्तयति आत्मानञ्च, वस्त्रं न नर्तयत्यात्मानन्तु नर्त्तयति, वस्त्रं नर्त्तयति नात्मानम्, न वस्त्रं नर्त्तयति न वाऽऽत्मानमिति चत्वारो भङ्गाः । वस्त्रं शरीरं वा न वलितं कृतं यत्र तदवलितमत्रापि चत्वारो भङ्गाः । न विद्यतेऽनुबन्धः सातत्यप्रस्फोटकादीनां यत्रासावननुबन्धिनी । न विद्यते उक्तलक्षणा मोसली यत्रासावमोसली । वस्त्रे प्रसारिते सति चक्षुषा निरूप्य तदवग्भागं तत्परावर्त्य निरूप्य च 20 त्रयः प्रस्फोटकाः कर्त्तव्याः, तथा तत्परावृत्त्य चक्षुषा निरूप्य च पुनरपरे त्रयः प्रस्फोटका एवमेते षट्, तथा नवखोटकाः ते च त्रयस्त्रयः प्रमार्जनानां क्रमेण त्रयेण त्रयेणान्तरिताः कार्या इति पदद्वयेनापि 25 २३६ मी अप्रमादप्रत्युपेक्षणा, तयोः सदृशत्वात् । तथा पाणे: - हस्तस्योपरि प्राणानां प्राणिनां कुन्ध्वादीनां विशोधना - प्रमार्जना प्रत्युपेक्ष्यमाणवस्त्रेणैव नवैव वाराः कार्या इति ॥ १७५ ॥ तप आश्रयेणाह — अनशनावमोदरिकाभिक्षाचर्यारसपरित्यागकायक्लेशप्रति संलीनतारूपं बाह्यं तपः प्रायश्चित्तविनय वैयावृत्त्यस्वाध्यायध्यानव्युत्सर्गलक्षणमाभ्यन्तरम् ॥ १७६ ॥ अनशनेति, आहारत्यागोऽनशनम्, इत्वरं यावत्कथिक, इत्वरं चतुर्थादि षण्मासान्तमिदं तीर्थमाश्रित्य । यावत्कथिकन्त्वाजन्मभावि त्रिधा - पादपोपगमनेङ्गितमरणभक्तपरिज्ञाभेदात् । ऊन30 दरकरणमवमोदरिका सा च द्रव्यत उपकरणभक्तपानविषया, भावतः क्रोधादित्यागः । भिक्षाचरणं भिक्षाचर्या सैव तपो निर्जराङ्गत्वादनानवत्, विचित्राभिप्रहयुक्तत्वेन वृत्तिसंक्षेपरूपा वा सा, भिक्षा
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy