________________
मुक्ता] स्थानमुक्तासरिका।
२३५ सकर्मणा दिक्ष्वेव गत्यादय इत्याहपूर्वपश्चिमदक्षिणोत्तरो धोदिग्भिर्जीवानां गत्यादिः प्रवर्त्तते ॥ १७३ ॥ __ पूर्वेति, षट्स्थानकानुरोधेन विदिशोऽविवक्षिताः, आभिः षड्भिर्दिग्भिः जीवानां गति:उत्पत्तिस्थानगमनं प्रवर्तते, तेषामनुश्रेणिगमनात् , एवमागतिव्युत्क्रान्त्याहारवृद्धिनिवृद्धिविकुर्वणागतिपर्यायसमुद्धातकालसंयोगदर्शनाभिगमज्ञानाभिगमजीवाभिगमाजीवाभिगमा वाच्याः किन्तु गत्यागती। प्रज्ञापकस्थानापेक्षिण्यौ प्रसिद्ध एव, व्युत्क्रान्तिः-उत्पत्तिस्थानप्राप्तस्योत्पादः, सापि ऋजुगतौ षट्खेव दिक्षु, आहारः प्रतीतः, सोऽपि षट्खेव दिक्षु, एतद्व्यवस्थितप्रदेशावगाढपुद्गलानामेव जीवेन स्पर्शनात्, स्पृष्टानामेव चाहरणात् , तथा शरीरस्य वृद्धिः, निवृद्धिर्हानिः, तस्यैव विकुर्वणा-वैक्रियकरणं गतिपर्यायो गमनमात्रं न परलोकगमनरूपः, तस्य गत्यागतिग्रहणेनोक्तत्वात् , समुद्धातो वेदनादिकः सप्तविधः, कालसंयोगः-समयक्षेत्रमध्ये आदित्यादिप्रकाशसम्बन्धलक्षणः, दर्शनं सामान्यग्राही बोधः, तच्चेह गुणप्रत्य-10 यावध्यादिप्रत्यक्षरूपं तेनाभिगमो वस्तुनः परिच्छेदस्तत्प्राप्तिर्वा दर्शनाभिगमः, एवं ज्ञानाभिगमोऽपि, जीवाभिगमः-सत्त्वाधिगमो गुणप्रत्ययावध्यादिप्रत्यक्षतः, अजीवाभिगमः-तथैव पुद्गलास्तिकायाद्यधिगम इति पञ्चेन्द्रियतिर्यग्योनिकानां मानुष्याणाममी गत्यादयः सामस्त्येन ज्ञेयाः ॥ १७३ ॥
अथ संयतमनुष्याणामाहारग्रहणकारणान्याह
वेदनावैयावृत्त्येर्यासंयमप्राणपालनधर्मचिन्तार्थं निर्ग्रन्थस्याहारं गृह्णतो15 न दोषाय, आतङ्कोपसर्गतितिक्षाप्राणिदयातपःशरीरव्यवच्छेदार्थश्च त्यजतः ॥ १७४ ॥
वेदनेति, एभिर्निमित्तैरशनादिकमभ्यवहरन्निर्गन्थो नाज्ञामतिक्रामति पुष्टकारणत्वात् , अन्यथा स्वतिक्रामत्येव, रागादिभावात् , क्षुद्वेदनोपशमनार्थमाचार्यादिवैयावृत्त्यकरणार्थमीर्याविशुद्ध्यर्थ प्रेक्षोत्प्रेक्षामार्जनादिसंयमार्थं प्राणसंधारणार्थं गुणनानुप्रेक्षणार्थश्च भुञ्जीत । आहारपरित्यजननिदानमाह 20 आतङ्केति, आतङ्के-ज्वरादौ, उपसर्गे-राजस्वजनादिजनिते प्रतिकूलानुकूलस्वभावे, तितिक्षायां-मैथुनव्रतसंरक्षणस्याधिसहने, आहारत्यागिनो हि ब्रह्मचर्य सुरक्षितं भवतीति । प्राणिदयायां-संपातिमत्रसादिसंरक्षणे, तपसि-चतुर्थादिषण्मासान्तस्वरूपे, शरीरव्यवच्छेदार्थ-देहत्यागायाहारं परित्यजन्नातिकामत्याज्ञामिति ॥ १७४ ॥
प्रमादा हि मद्यनिद्राविषयकषायद्यूतप्रतिलेखनाप्रमादरूपाः श्रमणादेः सदुपयोगाभावहेतव इति 25 ते निरूपयितव्यास्तत्र मद्यादीनां स्पष्टतया प्रत्युपेक्षाप्रमादं षष्ठं निरूपयति
आरभटा सम्मर्दा मोसली प्रस्फोटना विक्षिप्ता वेदिका च प्रमादप्रत्युपेक्षा, अप्रमादप्रत्युपेक्षणा तु अनर्त्तिता, अवलिता, अननुबन्धिनी, अमोसली, षट्प्रस्फोटकनवखोटकाः प्राणिप्राणविशोधना च ॥ १७५ ॥