SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ सत्रार्थमुक्तावल्याम् [चतुर्थी त्रिविधा इति, मनुष्या द्विविधाः सम्मूर्छनजा गर्भव्युत्क्रान्तिकाश्च, तत्र सम्मूर्च्छनजा कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपगाश्च तथैव गर्भव्युत्क्रान्तिकाश्च स्पष्टं शेषम् ॥ १७० ॥ __ संहननसंस्थाने आह वज्रर्षभनाराचर्षभनाराचनाराचार्द्धनाराचकीलिकासेवार्तानि संहननानि, समचतुरस्रन्यग्रोधपरिमण्डलसादिकुब्जवामनहुण्डानि संस्थानानि ॥१७१॥ वज्रेति, संहननमस्थिसञ्चयः, शक्तिविशेष इत्यन्ये, तत्र वनं-कीलिका ऋषभः परिवेष्टनपट्टः, नाराचः-उभयतो मर्कटबन्धः, यत्र द्वयोरस्योरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्था परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाकारं वज्रनामकमस्थि भवति तद्ववर्षभनाराचम् । यत्र तु कीलिका नास्ति तहषभनाराचम् । यत्र तूभयोमर्कटबन्ध एव तन्नाराचम् , यत्र त्वेकतो मर्कटबन्धो 10 द्वितीयपार्श्व कीलिका तदर्धनाराचम् , कीलिकाविद्धास्थिद्वयसश्चितं कीलिकम् । अस्थिद्वयपर्यन्तस्पर्शनलक्षणां सेवामा सेवामागतमिति सेवार्तम् । शक्तिपक्षे त्वेवंविधदादेरिव दृढत्वं संहननम् । संस्थानं अवयवरचनात्मिका शरीराकृतिः, तत्र समाः-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत् समचतुरस्रम् । आश्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवास्ततश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमाणास्तत्तुल्यं समचतुरस्रम् । न्यग्रोधवत्परि16 मण्डलं न्यग्रोधपरिमण्डलम् , यथा न्यग्रोध उपरिसम्पूर्णावयवोऽधस्तनभागे तु न तथेदमपि नाभेरुपरि विस्तृतबहुलं शरीरलक्षणभाक् , अधस्तु हीनाधिकप्रमाणमिति । सादि, आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते तेन शरीरलक्षणभाजा सह वर्त्तते यत्तत् सादि, सर्वमेव हि शरीरमविशिष्टेनादिना सह वर्त्तत इति विशेषणान्यथानुपपत्तेरिह विशिष्टता लभ्यते, अतः सादि-उत्सेधबहुलं परिपू. र्णोत्सेधमित्यर्थः। यत्र पाणिपादशिरोग्रीवं लक्षणव्यभिचारि शेषं लक्षणयुतं तत्कुब्जम् । तद्विपरीतं 20 वामनम् , हुण्डन्त्वेकोऽप्यवयवो यत्र प्रमाणयुतो न भवति तदिति ॥ १७१ ॥ अशुभानुबन्धानाह पर्यायपरिवारश्रुततपोलाभपूजासत्कारा अनात्मवतोऽहिताय, आत्मवतश्च हिताय ॥ १७२॥ पर्यायेति, अकषायो ह्यात्माऽऽत्मा भवति, स्वस्वरूपावस्थितत्वात् , यस्तद्वान्न भवति सोऽना25 त्मवान् सकषाय इत्यर्थस्तस्य पर्यायो जन्मकालः प्रव्रज्याकालो वास यदि महान् तदा मानकारणं भवति, अत एव तस्यैहिकामुष्मिकापायजनकत्वम्, गृहस्थापेक्षया चाल्पोऽपि प्रव्रज्यापर्यायो मानहेतुरेव, तत्र जन्मपर्यायो महानहिताय, यथा बाहुबलिनः, एवमन्येऽपि वाच्याः । परिवारः शिष्यादिः, श्रुतं पूर्वगतादि, उक्तश्च 'यथा यथा बहुश्रुतः संमतश्च शिष्यगणसंपरिवृतश्च । अविनिश्चितश्च समये तथा तथा सिद्धान्तप्रत्यनीकः ॥' इति, तपोऽनशनादि, लाभोऽन्नादीनाम् , पूजा स्तवादिरूपा तत्पूर्वकस्सत्कारः30 वस्त्राभ्यर्चनं पूजायां वा आदरः, एते अशुभानुबन्धाय भवन्ति । यस्त्वात्मवान्-स्वस्वरूपावस्थितस्तस्यैते हितायैव भवन्ति कषायशुन्यत्वादिति ॥ १७२ ॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy