________________
मुक्ता]
खानमुक्तासरिका।
२३३ श्रुतसङ्ग्रहो भवत्विति प्रयोजनेन श्रुतं वाचनीयं शिक्षणीयञ्च, एवमेते भक्तपानवस्त्राद्युत्पादनसमर्थतयोपष्टम्भिता भवन्त्वित्युपग्रहार्थमेवं मे कर्मणां निर्जरणं भवत्विति निर्जरार्थमेवं वाचयतो मे ग्रन्थो जातविशेषः स्फुटतया भविष्यतीति श्रुतस्फुटतार्थं श्रुतस्याव्यवच्छित्त्या कालान्तरनयनार्थश्च वाचयेत् ॥१६७॥ ___ गणं धारयितुं योग्यं गुणिनमाहश्रद्धासत्यमेधाबहुश्रुतशक्त्यल्पाधिकरणवन्तो गणधारकाषद् ॥१६८॥ ।
श्रद्धेति, गच्छं मर्यादायां धारयितुं पालयितुंवा योग्यः श्रद्धावान् , अश्रद्धावतो हि स्वयममर्यादावर्तितया परेषां मर्यादास्थापनायामसमर्थत्वाद्गणधराहता न स्यात् । सद्भ्यो जीवेभ्यो हितं सत्यं तद्वान् , प्रतिज्ञातशुरो वा, एवम्भूतो हि पुरुषो गणपालक आदेयश्च स्यादिति । मेधावान् श्रुतग्रहणशक्तिमान् , एवं भूतो हि श्रुतमन्यतो झगिति गृहीत्वा शिष्याध्यापने समर्थो भवतीति । बहुश्रुतवान् यस्य सूत्रार्थरूपं श्रुतं प्रभूतं सः, अन्यथा हि गणानुपकारी स्यात् । शक्तिमान् शरीरमत्रतत्रपरिवारादि- 10 सामर्थ्ययुक्तः, स हि विविधास्वापत्सु गणस्यात्मनश्च निस्तारको भवति । अल्पाधिकरणवानल्समविद्यमानमधिकरणं स्वपरपक्षविषयो विग्रहस्तद्वान् स ह्यनुवर्तकतया गणस्याहानिकारको भवतीति ॥१६८॥
जीवानां दुर्लभ्यपर्यायविशेषानाह
मानुषार्यक्षेत्रसुकुलजन्मार्हद्धर्मश्रवणश्रुतश्रद्धानसम्यक्संस्पर्शनानि न सुलभानि ॥ १६९ ॥
16 मानुषेति, मनुष्यसम्बन्धिजन्म सर्वजीवानां न सुलभं न सुप्रापं कृच्छूलभ्यमित्यर्थः, न पुनरलभ्यं केषांचिजीवानां तल्लाभोपलम्भात् । उक्तञ्च 'ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥' इति । तथाऽऽर्यक्षेत्रेऽर्धषड्विंशतिजनपदरूपे जननं न सुलभम् , उक्तञ्च 'सत्यपि च मानुषत्वे दुर्लभतरमार्यभूमिसम्भवनम् । यस्मिन् धर्माचारप्रवणत्वं प्राप्नुयात् प्राणी ॥' इति, एवमिक्ष्वाकादिके सुकुले प्रभवो न सुलभः, उक्तञ्च 'आर्यक्षेत्रो- 20 त्पत्तौ सत्यामपि सत्कुलं न सुलभं स्यात् । सच्चरणगुणमणीनां पात्रं प्राणी भवति यत्र ॥' इति, तथा केवलिप्रज्ञप्तस्य धर्मस्य श्रवणत्वं दुर्लभम् यतोऽभिहितं 'सुलभा सुरलोकश्री रत्नाकरमेखला मही सुलभा। निर्वृतिसुखजनितरुचिर्जिनवचनश्रुतिर्जगति दुर्लभा॥' इति, श्रुतस्य श्रद्धानमपि दुर्लभम् , उक्तश्च 'कदाचिच्छ्रवणं लब्ध्वा श्रद्धा परमदुर्लभा । श्रुत्वा न्यायोपपन्नं मार्ग बहवः परिभ्रश्यन्ति ॥' इति. सामान्येन अद्धितस्योपपत्तिभिः प्रतीतस्य सम्यक् कायेन स्पर्शनं दुर्लभम् यदाह 'धर्ममपि तु श्रहधतां 25 दुर्लभा कायेन स्पर्शना । इह कामगुणेषु मूञ्छितानां समयं गौतम ! मा प्रमाद्यः' इति । एतेषां दुर्लभत्वश्च प्रमादाविप्रसक्तप्राणिनामेव, न सर्वेषाम् ॥ १६९ ॥
मनुष्यभेदानाह
त्रिविधाः सम्मूर्छनजास्त्रिविधा गर्भव्युत्क्रान्तिकाश्च मनुष्याः, अर्हचक्रवर्तिबलदेववासुदेवचारणविद्याधरा ऋद्धिमन्तः ॥ १७० ॥
सू• मु. ३०
30