SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २५२ सूत्रार्थमुक्तावल्याम् [चतुर्थी नक्षत्रेति, चन्द्रस्य नक्षत्रमण्डलभोगकालो नक्षत्रमासः, स च सप्तविंशतिर्दिनानि, एकविंशतिः सप्तषष्टिभागा दिवसस्येति २७३ । एवंविधद्वादशमासो नक्षत्रसंवत्सरः, स च त्रीणि शतान्यहां सप्तविंशत्युत्तराणि, एकपञ्चाशच सप्तषष्टिभागाः यथा ३२७५७ । एकोनत्रिंशदिनानि द्वात्रिंशच द्विषष्टिभागा दिवसस्येत्येवंप्रमाणः कृष्णप्रतिपदारब्धः पूर्णमासीनिष्ठितश्चान्द्रमासः, तद्यथा-२९३३, तेन 6 मासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरः, तस्य च प्रमाणमिदम् , त्रीणि शतान्यह्रां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागा यथा ३५४१२, एवम्भूतौ चन्द्रसंवत्सरावनुक्रमेण द्वौ ततोऽभिवर्द्धितसंवत्सरस्ततश्चन्द्रसंवत्सरः ततोऽभिवर्द्धितसंवत्सर इति पञ्चभिरेभिः संवत्सरैरेकं युगं भवति, तत्राभिवर्द्धिताख्ये संवत्सरेऽधिकमासः पतति, एकत्रिंशदिनान्येकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशतभागानामभि वर्द्धितमासः यथा-३११३४, एवंविधेन मासेन द्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरः स च प्रमा10 णेन त्रीणि शतान्यहां व्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागाः यथा-३८३६३ इति । प्रमाणं परिमाणं दिवसादीनां तेनोपलक्षितो नक्षत्रसंवत्सरश्चन्द्रसंवत्सर ऋतुसंवत्सर आदित्यसंवत्सरोऽभिवर्द्धितसंवत्सरश्च प्रमाणसंवत्सरः, तत्र नक्षत्रसंवत्सरः पूर्वोक्तलक्षण एव केवलं तत्र नक्षत्रमण्डलस्य चन्द्रभोगमानं विवक्षितमिह तु दिनदिनभागादिप्रमाणमिति । तथा चन्द्राभिवधितावप्युक्तलक्षणावेव किन्तु तत्रयुगावयवतामात्रमिह तु प्रमाणमिति विशेषः । त्रिंशदहोरात्रप्रमाणैर्द्वादशभिर्ऋतुमासैः साव15 नमासकर्ममासपर्यायैर्निष्पन्नः षष्ट्यधिकाहोरात्रशतमानो यथा ३६० । आदित्यसंवत्सरः स च त्रिंशदिनान्यर्द्धश्च यथा ३०३ एवंविधमासद्वादशकनिष्पन्नः षट्षष्ट्यधिकाहोरात्रशतमानो यथा ३६६ । अयमेवानन्तरोक्तो नक्षत्रादिसंवत्सरो लक्षणप्रधानतया लक्षणसंवत्सर इति । यावता कालेन शनैश्चरो नक्षत्रमेकमथवा द्वादशापि राशीन भुक्ते स शनैश्चरसंवत्सर इति ॥ १६५ ॥ ___ कालात्यये शरीरिणां शरीरान्निर्गमात् तन्मार्गमाह20 पादोरूरःशिरस्सर्वांगै वस्य निर्गमनं क्रमेण नरकतिर्यअनुष्यदेवसिद्धिगतिगमनसूचकम् ॥ १६६ ॥ - पादेति, मरणकाले शरीरिणः शरीरान्निर्गमो निर्याणं तच्च पादादिद्वारेण भवति, तथा च करणभूताभ्यां पादाभ्यां यदा जीवः शरीरान्निर्याति तदा स निरयगामी भवति, एवमन्यत्रापि ॥१६६॥ अथ ज्ञानावरणक्षपणोपायमाह25 वाचनापृच्छनापरिवर्तनाऽनुप्रेक्षाधर्मकथारूपः स्वाध्यायः सङ्ग्रहोपग्रहणनिर्जरणश्रुतस्फुटताऽव्यवच्छित्तिनयार्थं श्रुतस्य वाचना ॥ १६७ ॥ वाचनेति, वक्ति शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना-पाठनम् । गृहीतवाचनेनापि संशयाद्युत्पत्तौ पुनः प्रष्टव्यमिति पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः प्रच्छना । प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परिवर्तना सूत्रस्य गणनमित्यर्थः, सूत्रवदर्थेऽपि सम्भवति विस्मरणमतः 30 सोऽपि परिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा, चिन्तनेत्यर्थः । एवमभ्यस्तश्रुतेन धर्मकथाविधेयेति श्रुतरू पस्य धर्मस्य व्याख्या धर्मकथेति । श्रुतं सूत्रमात्रं वा सङ्ग्राहः शिष्याणां श्रुतोपादानं तदर्थमेषां
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy