SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ मुक्ता]. २३१ स्थानमुकातरिका। धार्मिकाणामालम्बनस्थानान्याह षट्कायगणराजगृहपतिशरीराणि निश्रास्थानानि ॥ १६२ ॥ षट्कायेति, श्रुतचारित्रधर्मचारिण उपग्रहहेतवः षट्कायादयः, षट्कायाः पृथिव्यादयस्तेषां संयमोपकारित्वमागमप्रसिद्धम् , गच्छस्योपग्राहित्वं तत्र वसतां निर्जराविनयादिसम्भवात् । नरपतेर्धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणात् । गृहपतेनिश्रास्थानत्वं स्थानदानेन संयमोपकारित्वात्, शरीरस्य । धर्मोपग्राहित्वं स्पष्टमेव तदरक्षणे धर्महानेः ॥ १६२ ॥ शौचान्याह पृथिव्यप्तेजोमंत्रब्रह्मसम्बन्धीनि शौचानि ॥ १६३ ॥ पृथिवीति, शौचं शुद्धिर्द्रव्यतो भावतश्च, तत्र द्रव्यशौचं पृथिव्यादिचतुष्टयसम्बन्धि, भावशौचं पञ्चमम् , तत्र पृथिव्या-मृत्तिकया शौचं शरीरादिभ्यो घर्षणलेपनादिना जुगुप्सितमलगन्धयोरप- 10 नयनम् । इह च 'एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त विज्ञेया मृदः शुद्धौ मनीषिभिः ॥ एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां यतीनाञ्च चतुर्गुणम् ॥ इति परोक्तं नाभिमतम् , गन्धाधुपघातमात्रस्य शौचत्वेन विवक्षितत्वात् , तस्यैव युक्तियुक्तत्वाच। . अद्भिः प्रक्षालनमप्शौचम् । अग्निना तद्विकारेण भस्मना वा शौचं तेजश्शौचम् शुचिविद्यया मंत्रशौचम् । ब्रह्मचर्यादिकुशलानुष्ठानं ब्रह्मशौचम् , अनेन च सत्यादिशौचं चतुर्विधं संगृहीतम् ॥ १६३ ॥ 15 पुरुषभेदानेवाह हीहीमनश्चलस्थिरोदयनसत्त्वभेदाः पुरुषाः, अनुप्रतिस्रोतान्तमध्यसर्वचारिणो भिक्षाकाः, अतिथिकृपणब्राह्मणश्वानश्रमणाश्रया वनीपकाः ॥ १६४॥ हीति, लज्जया सत्त्वोऽविचलत्वं साधोः परीषहेषु परस्य सङ्ग्रामादौ यस्यासौ ह्रीसत्त्वः। 20 हिया मनस्येव सत्त्वं यस्य न देहे, शीतादिषु कम्पादिविकारभावात् स ह्रीमनःसत्त्वः, चलं भङ्गुरं सत्त्वं यस्य स चलसत्त्वः, एवं स्थिरसत्त्वः, उदयनं-उदयगामि प्रवर्धमानं सत्त्वं यस्यासावुदयनसत्त्वः। सत्त्वपुरुषोऽत्र भिक्षुरेवेति तदाश्रयेणाह-अन्विति, अनुस्रोतचारी प्रतिश्रयादारभ्य भिक्षाचारी, प्रतिस्रोतचारी,-दूरादारभ्य प्रतिश्रयाभिमुखचारी, अन्तचारी, पार्श्वचारी, एवं मध्यचारी सर्वचारी च। भिक्षाकाधिकारात्तद्विशेषमाहातिथीति, परेषामात्मदुःखत्वदर्शनेनानुकूलभाषणज्ञो यल्लभ्यते द्रव्यं सा वनी, 25 तां पिबत्यास्वादयति पातीति वा वनीपः स एव वनीपकः-याचकः, अत्र तु यो यस्यातिथ्यादेर्भक्तो भवति तं तत्प्रंशसनेन यो दानाभिमुखं करोति स वनीपक इति । भोजनकालोपस्थायी प्राघूर्णकोऽतिथिस्तहानप्रशंसनेन तद्भक्ताद्यो लिप्सति सोऽतिथिमाश्रित्य वनीपकोऽतिथिवनीपकः, एवमन्येऽपि॥१६४॥ अथ कालाश्रयेणाहनक्षत्रयुगप्रमाणलक्षणशनैश्चरसंवत्सराः पञ्च ॥ १६५॥ 30
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy