SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३० सूत्रार्थमुक्तावल्याम् [चतुर्थी नन्तः जीवानां प्रत्येक द्रव्यत्वात् क्षेत्रतो लोकप्रमाणः, कालतो नित्यः, भावतोऽमूर्तश्चेतनावान् , गुणतः साकारानाकारभेदोपयोगगुणः, पुद्गलास्तिकायोऽपि द्रव्यतोऽनन्तानि द्रव्याणि क्षेत्रतो लोक. प्रमाणः, कालतो नित्यो भावतो वर्णगन्धरसस्पर्शवान् गुणतश्चौदारिकशरीरादितया ग्राह्यत्वात् , वर्णादिमत्तयेन्द्रियग्राह्यत्वाद्वा ग्रहणरूपगुणवानिति ॥ १५९ ॥ अथ जीवाश्रयेणाह पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥१६०॥ पुलाकेति, मन्थादाभ्यन्तरबाह्यभेदान्मिथ्यात्वादेर्धनादेश्च निर्गता निम्रन्थाः । तत्र पुलाकः स यस्तप:श्रुतहेतुकायाः संघादिप्रयोजने चक्रवर्ल्सदेरपि चूर्णनसमर्थाया लब्धेरुपजीवनेन ज्ञानाद्यतिचारासेवनेन वा संयमसाररहितः, ज्ञानदर्शनचारित्रलिंगयथासूक्ष्मभेदभिन्नः । अयञ्च भेद आसेवा10 पुलाकस्य, न तु लब्धिपुलाकस्य, तस्यैकविधत्वात् , बकुशः शरीरोपकरणविभूषानुवर्तितया शुद्ध्यशुद्धि व्यतिकीर्णचरणः, अयं शरीरोपकरणानुवर्तितया द्विविधः, तत्र शरीरेऽनागुप्तव्यतिरेकेण करचरणवदनप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्यो विदूषिकामलाद्यपनयनं दन्तपावनलक्षणं केशसंस्कारश्च देहविभूषार्थमाचरन्तः शरीरबकुशाः। अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिचोक्षवासःप्रियाः पात्र दण्डाद्यपि तैलमात्रयोज्वलीकृत्य विभूषार्थमनुवर्तमाना बिभ्रत्युपकरणबकुशाः, उभयेपि ऋद्धियश15 स्कामाः सातगौरवमाश्रिता नातीवक्रियास्वभ्युद्यता अविविक्तपरिवारा बहुच्छेदशबलयुक्ताश्च उत्तर गुणप्रतिषेवया संज्वलनकषायोदयेन वा दूषितशीलाः कुशीलाः, प्रतिसेवनकुशीलकषायकुशीलभेदेन द्विविधाः, नैर्ग्रन्थ्यं प्रति प्रस्थिता अनियतेन्द्रियाः कथञ्चित्किञ्चिदेवोत्तरगुणेषु पिण्डविशुद्धिसमितिभावनातपःप्रतिमाभिग्रहादिषु विराधयन्तः सर्वज्ञाज्ञोल्लंघनमाचरन्ति ते प्रतिसेवनाकुशीलाः । येषान्तु संयतानामपि सतां कथञ्चित्संज्वलनकषाया उदीयन्ते ते कषायकुशीलाः । मोहनीयाख्यग्रन्थनिर्गतो नि20 ग्रन्थः क्षीणकषाय उपशान्तमोहो वा । क्षालितसकलघातिकर्ममलपटलत्वात् स्नात इव स्नातः स एव लातकः सयोगोऽयोगो वा केवलीति ॥ १६० ॥ उपधिविशेषाश्रयेणाह जाङ्गमिकभाङ्गिकसानकपोतकत्वङ्मयानि वस्त्राणि साधूनां योग्यानि औणिकौष्ट्रिकसानकबल्वजमौजानि रजोहरणानि च ॥ १६१ ॥ 25 जाङ्गमिकेति, जङ्गमास्त्रसास्तदवयवनिष्पन्नं कम्बलादिजाङ्गमिकम् , भङ्गा-अतसी तन्मयं भाङ्गिकम् , सनसूत्रमयं सानकम् , कासिकं पोतकम् , वृक्षत्वङ्मयञ्च वस्त्रं साधूनां साध्वीनाश्च धारयितुमासेवितुं वा युज्यते, उत्सर्गतस्त्वमहामूल्ये कार्यासिौर्णिके एव ग्राह्ये, महामूल्यता च पाटलीपुत्रीयरूपकाष्टादशकादारभ्य रूपकलक्षं यावदिति । रजो ह्रियते-अपनीयते येन तद्रजोहरणम् , तद्प्यविलोममयमुष्ट्रलोममयं सनसूत्रमयं बल्वजस्तृणविशेषस्तस्य कुट्टितत्वङ्मयं मुञ्जः शरपर्णी तन्मयं 30 योग्यं भवति, औत्सर्गिक रजोहरणं पट्टनिषद्याद्वययुक्तमापवादिकमनावृतदण्डम् , निर्व्याघातिकमौर्णिकदशकं व्याघातिकन्त्वितरदिति ॥ १६१ ॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy