________________
मुक्ता] स्थानमुक्तासरिका।
२२९ ग्लानत्वे पौरुषीभङ्ग' इति । एते च सामान्यसाधोरपि प्रायः समानास्तथापि गच्छस्य तीर्थस्य वा महोपकारित्वेन रक्षणीयत्वेनाचार्यस्सायमतिशय उक्तः । तथाऽन्तरुपाश्रये एकरात्रं द्विरात्रं वा विद्यादिसाधनार्थमेकाक्येकान्ते वसन्नातिकामति तत्र तस्य दोषासम्भवात् , अन्यस्य तु तद्भावादिति चतुर्थः, एवं पञ्चमोऽपि, भावार्थश्चायं-अन्तरुपाश्रयस्य वक्षारके विष्वग्वसति, बहिर्वोपाश्रयस्य शून्यगृहादिषु वसति यदि तदाऽसामाचारी । दोषाश्चैते-पुंवेदोदयेन जनरहिते हस्तकर्मादिकरणेन संयमे । भेदो भवति, मर्यादा मया लंघितेति निदेन वैहानसादिमरणश्च प्रतिपद्यत इति ॥ १५७ ॥
तस्यैव गणान्निर्गमनकारणान्याह
गणे आज्ञाया धारणाया वा सम्यगप्रयोक्ता यथाज्येष्ठं कृतिकर्मणो । विनयस्य वा सम्यगप्रयोक्ता यथावसरं श्रुतपर्यायाणां सम्यगननुप्रवाचयिता वपरगणसम्बन्धिनिम्रन्थ्यां बहिर्लेश्यः, सुहृदादिकृतगणापक्रमण-10 श्चाचार्योपाध्यायो गणादपक्रामेत् ॥ १५८ ॥
गण इति, आचार्योपाध्यायस्याचार्योपाध्याययोर्वा गच्छान्निर्गमः कारणैरेभिर्भवेत् ,स हि गच्छविषये योगेषु प्रवर्तनलक्षणामाज्ञामविधेयेभ्यो निवर्तनलक्षणां धारणां यथौचित्यं यदा न प्रयोजयति, इदमुक्तं भवति दुर्विनीतत्वाद्गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति कालिकाचार्यवदित्येकम् । तथा गणविषये यथाज्येष्ठं कृतिकर्म तथा विनयं नैव सम्यक्प्रयोक्ता भवति, आचार्यसम्पदा साभिमान-15 त्वात्, यतः आचार्येणापि प्रतिक्रमणक्षामणादिषु उचितानामुचितविनयः कर्त्तव्य एवेति द्वितीयम् । तथाऽसौ यान् श्रुतपर्यायप्रकारानुदेशकाध्ययनादीन् धारयति हृद्यविस्मरणतस्तान् यथावसरे गणं सम्यक्पाठयिता न भवति, तस्याविनीतत्वात् सुखलम्पटत्वान्मन्दप्रज्ञत्वाद्वाचार्यस्येति गणादपक्रामतीति तृतीयम् । तथाऽसौ गणे वर्तमानः स्वगणसम्बन्धिन्यां परगणसम्बन्धिन्यां वा निम्रन्थ्यां तथाविधाशुभकर्मवशवर्तितया स कलकल्याणाश्रयसंयमसौधमध्यावहिः लेश्या-अन्तःकरणं यस्यासौ बहिर्लेश्य आसक्तो 40 भवतीत्यर्थः सगणादपक्रामति इति चतुर्थम् । सुहृत्स्वजनवर्गः तस्याचार्यादेः कुतोऽपि कारणाद्गणादपक्रामेत् अतस्तस्य संग्रहाद्यर्थ गणादपक्रामेदिति पश्चमम् ॥ १५८ ॥
जीवाजीवाश्रयेणाहद्रव्यतः क्षेत्रतः कालतो भावतो गुणतश्च धर्मास्तिकायादयः ॥१५९॥
द्रव्यत इति, धर्माधर्माकाशजीवपुद्गलाः पश्चास्तिकायाः, तत्र धर्मास्तिकायो द्रव्यादितः 25 पञ्चधा, द्रव्यतामधिकृत्यायमेकः, क्षेत्रमाश्रित्य लोकप्रमाणः, कालापेक्षया ध्रुवः, यतः कदापि नासीदिति न, न भवतीति न, न भविष्यतीति न, किन्तु अभूद्भवति भविष्यति च । भावापेक्षया वर्णगन्धरसस्पर्शशून्यः, गुणापेक्षया च गतिपरिणामिनां जीवपुद्गलानां सहकारितया गमन उपकारकत्वम् । एवमधर्मास्तिकायोऽपि, परन्तु गुणतः स्थितिपरिणामिनां जीवपुद्गलानां स्थितावुपकारकर्तृत्वम् । आकाशास्तिकायः क्षेत्रतो लोकालोकप्रमाणः, गुणतोऽवगाहनागुणः, शेषं पूर्ववत् । जीवास्तिकायो द्रव्यतोऽ- 30