SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ मुक्ता] स्थानमुक्तासरिका। गिरिनिकुञ्जेषु । मारयति बान्धवमपि पुरुषो यो भवेद्धनलुब्धः ॥ अटति बहुं वहति भार सहते क्षुधां पापमाचरति धृष्टः । कुलशीलजातिप्रत्ययस्थितिञ्च लोभोपद्रुतस्त्यजति ॥ इति, पूर्वोत्पन्नानाञ्च भोगानामविप्रयोगाय रक्षणार्थमिति, एवमप्रेऽपि सुखश्च भोगसम्पाद्यानन्दविशेष इति ॥ १३२ ॥ भोगाद्यर्थ यतमानो बवा कर्म नारकतयोत्पद्यत इति नानाऽऽहारतो निरूपयति अङ्गारमुर्मुरोपमशीतलहिमशीतला नारकाहाराः, कबिलपाणमांस-5 पुत्रमांसोपमास्तिर्यग्योनिकाहाराः, अशनपानखादिमखादिमाहारा मनुष्याः वर्णगन्धरसस्पर्शमयाहारा देवाः ॥ १३३ ॥ ___अङ्गारेति, अल्पकालदाहत्वादङ्गारोपमः, स्थिरतरदाहत्वान्मुर्मुरोपमः, शीतवेदनोत्पादकत्वाच्छीतलः अत्यन्तशीतवेदनाजनकत्वाद्धिमशीतलः, अधोऽध इति क्रमः । कङ्कः पक्षिविशेषस्तस्याहारेण समः कंकोपमः, यथाहि कङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामश्च भवति तथा 10 यस्तिरश्चां सुभक्षः सुखपरिणामश्च स कङ्कोपमः । तथा बिले प्रविशद्रव्यं बिलमेव तेनोपमा यत्र स तथा, बिले हलब्धरसाखादं झगिति किञ्चिद्यथा प्रविशति तथा यस्तेषां गलविले प्रविशति स सथोच्यते । पाणो मातङ्गः, तन्मांसस्पृश्यत्वेन जुगुप्सया दुःखाद्यं स्यादेवं यस्तेषां दुःखाद्यः स पाणमांसोपमः । पुत्रमासन्तु स्नेहपरतया दुःखाद्यतरं स्यादेवं यो दुःखाद्यतरः स पुत्रमांसोपमः । क्रमेण चैते शुभसमाशुभाशुभतरा वेदितव्याः , शेषं सुगमम् ॥ १३३ ॥ अथ चिकित्साश्रयेणाह_ व्रणकर्तृत्वतत्परिमर्शित्वाभ्यां तत्कर्तृत्वतत्संरक्षणाभ्यां तत्कर्तृत्वतसंरोहित्वाभ्याञ्च चतुर्भगश्चिकित्सकानाम् ॥ १३४ ॥ वणकतत्वेति, चिकित्सका द्रव्यतो ज्वरादिरोगान् प्रति, भावतो रागादीन् प्रतीति, तत्रास्मनो ज्वरादेः कामादेर्वा चिकित्सक आत्मचिकित्सक उच्यते तद्भेदा अत्रोक्ता ग्राह्याः। तत्र कश्चित् 20 व्रणं देहे क्षतं स्वयं करोति रुधिरादिनिर्गालनार्थमिति व्रणकरः परं न व्रणं परिमृशति इत्येकः, केचित्त्वन्यकृतं व्रणं परिमृशति न च तत्करोतीति द्वितीयः, अपरः परिमृशति करोति च, इतरस्तु नोभयथा । एवं भावव्रणमतिचारलक्षणं करोति कायेन, न च तदेव पुनः पुनः संस्मरणेन स्पृशति । अन्यस्तु तत्परिमृशत्यभिलाषात् , न च करोति कायतः संसारभयादिभिः । एवमितरौ । व्रणं करोति न च तत्पबन्धादिना संरक्षति कश्चित् , कृतं संरक्षति न च करोत्यन्यः, भावनणन्त्वाश्रित्यातिचारं 25 करोति न च तं सानुबन्धं भवन्तं कुशीलादिसंसर्गतनिदानपरिहारतो रक्षत्येकः, अन्यस्तु पूर्वकृतातिचार निदानपरिहारतो रक्षति नवं च न करोति, एवमन्यौ भाव्यौ । एको अणकर्ता न व्रणरोही नैव व्रणं संरोहयत्यौषधदानादिना, भावव्रणापेक्षया प्रायश्चित्ताप्रतिपत्तेः । अपरो व्रणसरोही पूर्वकृतातिधारप्रायश्चित्तप्रतिपत्त्या, नो प्रणकरोऽपूर्वातिचाराकारित्वादिति ॥ १३४ ॥ सू.मु. २८ 16
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy