SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २१६ सूत्रायमुक्तावल्याम् [चतुर्थी लक्षणेनैव देशेन मुखस्योपनयनम् , नानिष्टेन नयननासावर्जितत्वकलकत्वादिनेति । यत्साध्वविकलत्वादिदोषदुष्टं तत् तद्दोषोदाहरणम् , यथा नित्यः शब्दोऽमूर्तत्वात् घटवदिति, अत्र साध्यसाधनवैकल्यं नाम दृष्टान्तदोषः । यच्चासभ्यादिवचनरूपं तदपि तद्दोषः, यथा सर्वथाऽहमसत्यं परिहरामि गुरुमस्तककर्तनवदिति । यद्वा साध्यसिद्धिं कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यं धर्ममि5 च्छन्ति लौकिकमुनयोऽपि 'वरं कूपशताद्वापी वरं वापीशतात् क्रतुः। वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद्वर'मिति वचनवक्तृनारदवदिति, अनेन च श्रोतुः पुत्रक्रतुप्रभृतिषु प्रायः संसारकारणेषु धर्मप्रतीतिराहितेति । यथा वा बुद्धिमता केनापि कृतमिदं जगत् सन्निवेशविशेषवत्त्वात् , घटवत्, स चेश्वर इति, अनेन हि स बुद्धिमान् कुम्भकारतुल्योऽनीश्वरः सिद्ध्यतीति ईश्वरश्च स विवक्षित इति । वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते, 10 पर्यनुयोगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदः, ज्ञातहेतुत्वादिति । यथाऽकर्ता आत्मा अमूर्त्तत्वादाकाशवदित्युक्ते अन्य आह-आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्टश्चैतदिति । यथा वा मांसभक्षणमदुष्टं प्राण्यङ्गत्वादोदनादिवत्, अत्राहान्यः-ओदनादिवदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति । यथा वा त्यक्तसङ्गा वस्रपात्रादिसङ्ग्रहं न कुर्वन्ति ऋषभादिवत् , अत्राह कुण्डिकाद्यपि ते न गृह्णन्ति तद्वदेवेति, तथा कस्मात् कर्म कुरुषे यस्माद्धनार्थीति । इह प्रथम 15 ज्ञातं सर्वसाधर्म्यरूपं द्वितीयं देशसाधर्म्यरूपं तृतीयं सदोषं चतुर्थश्च प्रतिवाद्युत्तररूपमित्येषां स्वरूपविभागः ॥ ३०॥ . लोकाश्रयेणाह नरकनैरयिकपापकर्माशुभपुद्गला अधोलोकेऽन्धकारकारीणः, चन्द्रसूर्यमणिज्योतींषि तिर्यग्लोक उद्द्योतकारीणि, देवदेवीविमानाभरणान्यू20 प्रलोके ॥ ३१॥ नरकेति, नरका नारकावासाः, नैरयिकाः-नारका एते कृष्णस्वरूपत्वादन्धकारं कुर्वन्ति, पापानि कर्माणि-ज्ञानावरणादीनि मिथ्यात्वाज्ञानलक्षणभावान्धकारकारित्वादन्धकारं कुर्वन्तीत्युच्यन्ते, अथवा अन्धकारस्वरूपेऽधोलोके प्राणिनामुत्पादकत्वेन पापानां कर्मणामन्धकारकर्तृत्वम् । अशुभपुद्गला:-तमिस्रभावेन परिणताः । शेषं स्पष्टम् ॥ ३१ ॥ 25 भोगसुखाश्रयेण प्रसर्पकानाह अनुत्पन्नभोगोत्पादनाय पूर्वोत्पन्नभोगाविप्रयोगायानुत्पन्नसुखोपभोगाय पूर्वोत्पन्नसुखाविप्रयोगाय प्रसर्पकाः ॥ ३२ ॥ अनुत्पन्नेति, प्रकर्षेण सर्पन्ति गच्छन्ति भोगाद्यर्थ देशानुदेशं सञ्चरन्ति, आरम्भपरिग्रहती वा विस्तारं यान्तीति प्रसर्पकाः, अनुत्पन्नानसम्पन्नान् भोगान् शब्दादीन् तत्कारणद्रविणाङ्गनादीन वा 30 सम्पादयितुमनुत्पमानां वा भोगांनामुत्पादनार्थम् । उक्तश्च धावति रोहणं तरति सागर भ्राम्यति
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy