SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २१५ मुक्ता] स्थानमुक्तासरिका। लोकादुद्वृत्त्य पृथिव्यादिघनोदध्यादिघनवातवलयादिघनोदध्यादिषु यथास्वमुत्पादस्थानेष्वन्यतरगत्योत्पद्यमाना अपर्याप्तावस्थायामतिबहुत्वात्सर्वलोकं प्रत्येक स्पृशन्ति पर्याप्तास्त्वेते बादरतैजस्कायिकास्त्रसाश्च लोकासंख्येयभागमेव स्पृशन्तीति ॥ २८ ॥ पृथिवीप्रसङ्गादाह पृथिव्यतेजोवनस्पतिकायशरीरं न सुखदृश्यम् , शब्दगन्धरसस्पर्शा इन्द्रियस्पृष्टा वेद्याः जीवपुद्गला गत्यभावनिरुपग्रहत्वरूक्षत्वलोकानुभावैरलोकगमनासमर्थाः ॥ २९ ॥ - पृथिवीति, बादरवायूनां सूक्ष्माणां पञ्चानामपि पृथिव्यादिकायानामेकमनेकं वा शरीरमहश्यमिति बोध्यम् , वनस्पतय इह साधारणा एव ग्राह्याः प्रत्येकशरीरस्यैकस्यापि दृश्यत्वात् । न सुखदृश्यमिति, न चक्षुषः प्रत्यक्षदृश्यमनुमानादिभिस्तु दृश्यमपीत्यर्थः । शब्देति, श्रोत्रादीन्द्रियसम्बद्धा 10 एते आत्मना ज्ञायन्ते नयनमनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वात् , उक्तञ्च 'स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टं तु । गन्धं रसश्च स्पर्शश्च बद्धस्पृष्टं व्याकुर्या'दिति । जीवपुद्गला इति, अन्येषां गत्यभावात् । एते चालोके गमनाय न शक्नुवन्ति गत्यभावादिहेतुभिः, तत्र गत्यभावो लोकान्तात् परतस्तेषां गतिलक्षणस्वभावाभावः, यथाऽधो दीपशिखायाः। निरुपग्रहत्वं धर्मास्तिकायाभावेन तज्जनितगत्युपष्टम्भाभावः, गंञ्यादिरहितपङ्गुवत् । रूक्षत्वं-सिकतामुष्टिवत् , लोकान्तेषु हि पुद्गला रूक्षतया 15 तथा परिणमन्ति यथा परतो गमनाय नालम् , कर्मपुद्गलानाञ्च तथाभावे जीवा अपि, सिद्धास्तु निरुपमहतयैवेति । लोकानुभावो लोकमर्यादा, विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवत् ॥ २९ ॥ अथ दृष्टान्ततः प्राय उक्तार्थानां प्रतीतेस्तद्भेदानाह आहरणतद्देशतद्दोषोपन्यासभेदं ज्ञातम् ॥ ३०॥ आहरणेति, ज्ञायतेऽस्मिन् सति दार्टान्तिकोऽर्थ इत्यधिकरणे क्तप्रत्यये ज्ञातं दृष्टान्तः स द्वि- 20 विधः साधर्म्यवैधर्म्यभेदात् , साधनसद्भावे साध्यस्यावश्यम्भावो यथाऽग्निरत्र धूमाद्यथा महानसमिति प्रथमः, साध्याभावे साधनस्यावश्यमभावो यथा तत्रैवाम्यभावे धूमो न भवति यथा जलाशय इति द्वितीयः । यद्वा आख्यानकरूपं ज्ञातं तच्च चरितकल्पितभेदाद्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयम् , यथा पाण्डुपत्रेण किशलयानां देशितं तथाहि 'जह तुब्भे तह अम्हे तुब्भेऽविय होहिहा जहा अम्हे । अप्पाहेइ पडतं 25 पंडुयपत्तं किसलयाणं ॥ इति, अथवा उपमानमानं ज्ञातम्, सुकुमारः करः किसलयमिवेत्यादिवत् । यद्वा उपपत्तिमात्रं ज्ञातं ज्ञातहेतुत्वात्, कस्माद्यवाः क्रीयन्ते ? यस्मान्मुधा न लभ्यन्त इत्यादिवदिति, एवमनेकधा साध्यप्रत्यायनस्वरूपं ज्ञातमुपाधिभेदाचतुर्विधमाह आहरणेति, यत्र समुदित एव दार्टीम्तिकोऽर्थ उपनीयते यथा पापं दुःखाय ब्रह्मदत्तस्येवेति तदाहरणम् । यत्र दृष्टान्तार्थदेशेनैव दान्तिकार्थस्योपनयनं क्रियते तत् तद्देशोदाहरणम् , यथा चन्द्र इव मुखमस्या इति, अत्र हि चन्द्रे सौम्यत्व- 30
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy