________________
.
२१४ सूत्रार्थमुक्तावल्याम्
[चतुर्थी इति तृतीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागद्वेषाभ्यां हीयत इति चतुर्थः । अथवा क्रोधेन वर्द्धते मायया हीयते, क्रोधेन वर्द्धते मायालोमाभ्यां हीयते, क्रोधमानाभ्यां वर्द्धते मायया हीयते क्रोधमानाभ्यां वर्द्धते मायालोभाभ्यां हीयत इति ॥ २६ ॥
संयतपुरुषाश्रयेणाह
शय्यावस्त्रपात्रस्थानप्रतिमाः प्रत्येकं चतस्रः ॥ २७ ॥
शय्येति, शय्यते यस्यां सा शय्या संस्तारकः, तस्याः प्रतिमा अभिग्रहाः, तत्र उद्दिष्ट फलकादीनामन्यतमद्रहीष्यामि नेतरदित्येका, यदेव प्रागुद्दिष्टं तदेव यदि द्रक्ष्यामि तदा तदेव ग्रहीष्यामि नान्यदित्यन्या, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया, तदपि फलकादिकं यदि यथासंस्तृतमेवाऽऽस्ते ततो ग्रहीष्यामि नान्यथेति चतुर्थी, 10 आसु च प्रतिमाखाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रह उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानान्तु चतस्रोऽपि कल्पन्त इति । वस्त्रग्रहणविषये प्रतिज्ञाः वस्त्रप्रतिमाः कासिकादीत्येवमुद्दिष्टं वस्त्रं याचिष्य इति प्रथमा, प्रेक्षितं वस्त्रं याचिष्ये नापरमिति द्वितीया, अन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया, तदेवोत्सृष्टधर्मकं ग्रहीष्यामीति चतुर्थी ।
अथ पात्रप्रतिमा उद्दिष्टदारुपात्रादि याचिष्य इति प्रथमा, प्रेक्षितमिति द्वितीया, दातुः स्वाङ्गिक 16 परिभुक्तप्रायं द्वित्रेषु वा पात्रेषु पर्यायेण परिभुज्यमानं पात्रं याचिष्य इति तृतीया, उज्झितधर्मिकमिति
चतुर्थी । कायोत्सर्गाद्यर्थे स्थानप्रतिमाः, तत्र कस्यचिद्भिक्षोरेवम्भूतोऽभिग्रहो भवति यथाऽहमचित्तं स्थानमुपाश्रयिष्यामि तत्र चाकुश्चनप्रसारणादिकां क्रियां करिष्ये तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये तथा तत्रैव स्तोकपादविहरणं समाश्रयिष्यामीति प्रथमा प्रतिमा, द्वितीया त्वाकुश्चनप्रसार
णादिक्रियामवलम्बनश्च करिष्ये न पादविहरणमिति, तृतीया त्वाकुञ्चनप्रसारणमेव नावलम्बनपादवि20 हरणे इति, चतुर्थी च यत्र त्रयमपि न विधत्त इति ॥ २७ ॥
पूर्व शरीरचेष्टानिरोधस्योक्तत्वात्तत्प्रसङ्गेनाह
वैक्रियाहारकतैजसकार्मणशरीराणि जीवस्पृष्टानि, औदारिकवैकियाहारकतैजसानि कार्मणमिश्राणि, धर्माधर्मजीवपुद्गलास्तिकायैर्लोको * व्याप्तो बादरपृथिव्यम्बुवायुवनस्पतिभिरुत्पद्यमानैश्च ॥ २८ ॥ 25 वैक्रियेति, स्पष्टम् , जीवेम व्याप्तानि जीवस्पृष्टानि, जीवेन हि स्पृष्टान्येव वैक्रियादीनि भवन्ति,
यथौदारिकं जीवमुक्तमपि भवति मृतावस्थायां न तु तथैतानीति । कार्मणेन शरीरेण मिश्राणि न केवलानि यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्राण्यपि भवन्ति नैवं कार्मणेनेति । व्याप्त इति, प्रतिप्रदेशं व्याप्त इत्यर्थः । बादरेति, सूक्ष्माणां पश्चानामपि सर्वलोकात् सर्वलोके उत्पादात्, वादरतैज
सानान्तु सर्वलोकादुद्वृत्त्य मनुष्यक्षेत्रे ऋजुगत्या वक्रगत्या चोत्पद्यमानानां द्वयोरूर्द्धकपाटयोरेव बादर30 तेजस्त्वव्यपदेशस्येष्ठत्वाच्च तैजसं विहाय बादरेत्युक्तम् । बादरा हि पृथिव्यम्बुवायुवनस्पतयः सर्वतो