________________
• स्वालमुकासरिका।
२१३ भगवानईन् तस्य विवक्षया सकलस्वार्थसमाप्तेः परप्रधानप्रयोजनप्रापणप्रवणप्राणितत्वात् , अपर आत्मम्भरिः परम्भरिश्च यथा स्वपरार्थकारी, स च स्थविरकल्पिको विहितानुष्ठानः स्वार्थकरत्वात् , विधिबसिद्धान्तदेशनाच्च परार्थसम्पादकत्वात् । इतरस्तु नात्मम्भरिर्नापि परम्भरिय॑थोभयानुपकारी मुग्धमतिः कश्चिद्यथाच्छन्दो वेति । उभयानुपकारी दुर्गत एव स्यादिति तदाश्रयेणाह दुर्गतसुगता इति, पूर्व दुर्गतो दरिद्रो धनविहीनत्वात् ज्ञानादिरत्नविहीनत्वाद्वा, पश्चादपि दुर्गतस्तथैवेत्येकः । दुर्गतः सुगतो । द्वितीयः सुगतो दुर्गतस्तृतीयः, उभयथा सुगतश्चेति चतुर्थः । अत्र सुगतो द्रव्यतो धनी, भावतो ज्ञानादिगुणवान् । दुर्गतः कोऽपि व्रती स्यादित्यत आह दुर्गतसुव्रता इति, दरिद्रः सन् दुव्रतः, असम्यग्वतः, दुर्गतः सन् सुव्रतो निरतिचारनियमः, इतरौ प्रतीतौ । दुर्गतदुष्प्रत्यानन्दाः, कश्चिदुर्गतस्तथैव दुष्प्रत्यानन्दश्च, उपकृतेन कृतमुपकारं यो नाभिमन्यत इत्येकः, अपरो दुर्गतस्सन सुप्रत्यानन्दो य उपकारं मन्यते, इतरावूह्यो । दुर्गतदुर्गतिगामिन इति, तथैव दुर्गतः सन् दुर्गतिं गमिष्यतीत्येकः, 10 दुर्गतः सन् सुगतिं गमिष्यतीत्यपरः, अन्यावप्येवम् ॥ २४ ॥
तथा
परिज्ञातकर्मसंज्ञाः परिज्ञातकर्मगृहावासा इहपरार्थाश्च ॥ २५ ॥
परिज्ञातेति, कश्चित् परिज्ञातकर्मा न परिज्ञातसंज्ञः, ज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानपरिक्षया च परिहृतानि कर्माणि कृष्यादीनि येन सः, न च परिज्ञाता आहारादिसंज्ञा येन स 15 इत्येको भङ्गः, यथाऽभावितावस्थः प्रवजितः श्रावको वा। अपरः परिज्ञातसंज्ञो न परिज्ञातकर्मा यथा श्रावकः, सद्भावनाभावितत्वात् , कृष्यादितोऽनिवृत्तेश्व, तृतीयः साधुः चतुर्थोऽसंयत इति । परिजातकर्मा सावधकरणकारणानुमतिनिवृत्तत्वात् कृष्यादिनिवृत्तत्वाद्वा, न परिज्ञातगृहावासोऽप्रव्रजित इत्येकः, अन्यस्तु परिज्ञातगृहावासो न त्यक्तारम्भो दुष्प्रव्रजित इति द्वितीयः, तृतीयः साधुश्चतुर्थोऽसंयतः, एवं त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यक्तगृहावासो गृहस्थत्वादियेकः, अन्यस्तु परिहृतगृ- 20 हावासो यतित्वात् , अभावितत्वान्न परिहृतसंज्ञः, अन्य उभयथा, अन्यो नोभयथेति भाव्यम् । इह जन्मन्यर्थः प्रयोजनं भोगसुखादि यस्य स इहार्थो न तु परार्थ इत्येको भङ्गः, यथा भोगपुरुषः, परत्र यस्यार्थो नेह स इत्यपरो यथा साधुः, इह परत्र च यस्यार्थः स सुश्रावक इत्यन्यः, उभयप्रतिषेधवान् कालसौकरिकादिरित्यपरः ॥ २५ ॥
तथा
एकेन द्वाभ्यां हानिवृद्धितश्च ॥ २६ ॥
एकेनेति, चतुर्धा पुरुषा इति शेषः, कश्चिदेकेन श्रुतेनैव वर्द्धते, एकेन च सम्यग्दर्शनेन हीयते इलेकः, एकेन श्रुतेनैवान्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयत्त इति द्वितीया, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्द्धते, एकेन सम्यग्दर्शनेन हीयत इति तृतीयः, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्याञ्च हीयत इति चतुर्थः, अथवा झाचेन वर्द्धते रागेण हीयत इत्येकः, 30 अन्यो ज्ञानेन वर्द्धते रागद्वेषाभ्यां हीयत इति द्वितीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागेण हीयत