________________
२१२
सूत्रार्थमुक्तावल्याम्
[ चतुर्थी
केवल विनाशितं मुञ्चत्यपि तु तद्विमोचकं पुरुषादिकं हस्तादिषु कण्टकैर्विध्यति, श्रमणस्य भगवतो महावीरस्य श्रमणोपासकानां सौधर्मकल्पेऽरुणाभे विमाने चत्वारि पल्योपमानि स्थितिरिति ॥ २१ ॥
अन्धकाराश्रयत आह
अर्हद्धर्म पूर्वगतजाततेजोव्युच्छेदेऽन्धकारः ॥ २२ ॥
अर्हदिति, अर्हद्भिर्व्यवच्छिद्यमानैर्लोके तमिस्त्रं भवति तच्च द्रव्यतः, तस्योत्पातरूपत्वात्, छत्रभङ्गादौ र उद्घातादिवत् वह्निव्यवच्छेदेऽन्धकारमपि द्रव्यत एव तथास्वभावात्, दीपादेरभावाद्वा, भावतोऽपि वा एकान्तदुष्षमादावागमादेरभावात् । अन्यद्व्यक्तम् । एवं लोकोद्योतोऽप्यर्ह - द्भिर्जायमानैरर्हद्भिः प्रव्रज्यमानैरर्हतां ज्ञानोत्पादपरिनिर्वाणमहिमासु चेति । एवं देवान्धकारदेवो द्योतदेवसन्निपातदेवोत्कलिकादेव कलकलास्तथा देवेन्द्राणां मनुष्यलोके आगमनश्च भाव्यम् ॥ २२ ॥ 10 अर्हतां प्रवचने दुःस्थितस्य साधोर्दुःखशय्या भवतीति तदाश्रयेण चतुःस्थानमाचष्टे – प्रवचने शङ्काकांक्षाविचिकित्सादिभिरश्रद्धधानस्य साधोः परलाभाभिलाषुकस्य दिव्यमानुषकामभोगाकांक्षिणोऽगार वासगात्रसंमर्द्दनाद्यपेक्षिणश्च दुःखशय्या ॥ २३ ॥
प्रवचन इति, दुःखदा शय्या दुःखशय्याः, ताश्च द्रव्यतोऽननुकूलखङ्घादिरूपाः, भावतस्तु 16 दुःस्थचित्ततया दुःश्रमणतास्वभावाः प्रवचनाश्रद्धानपरलाभप्रार्थन कामाशंसन स्नानादिप्रार्थनरूपाः, तत्र यः eferraर्मा शासने भगवदुक्ते शङ्कित एकस्मिन्नपि भावे संशयितः कांक्षायुतो मतान्तरमपि साध्विति मन्ता फलं प्रति शङ्कावान् भगवच्छासनोक्तमिदं सर्वमेवमन्यथा वेति बुद्धिद्वैधं समाश्रितो नैतदेवमिति विपर्यस्तो वा सन् प्रवचनं सामान्येनैवमिदमिति न श्रद्धत्ते न वाऽभिलाषातिरेकेणाssसेवनाभिमुखो refa defat स्य मनोऽसमञ्जसं याति ततो धर्मभ्रंशं संसारं वाssपद्यत इत्यसौ श्रामण्यश20 य्यायां दुःखमास्त इत्येका दुःखशय्या, यश्च साधुर्न स्वकीयेन लाभेन तुष्यति परस्य चान्नरत्नादेर्लाभ
याशां करोति स नूनं मे दास्यतीति लभते चेद्भुक्त एव ततोऽधिकतरमपि वाञ्छति तदेवंभूतस्य मनसोऽनवस्थानाद्धर्मभ्रंशं संसारं वा प्राप्नोतीति द्वितीया । यस्तु प्रव्रजितो यदाऽहमगारवासमावसामि तदा शरीरस्य मर्द्दनं तैलाभ्यङ्गमङ्गधावनं च लभे न मां कश्चिन्निषेधति यदा तु प्रत्रजितोऽस्मि तदा नाहमेतानि लभ इत्येवं यदा गात्रसंमर्दनाद्यभिलषति तदा तस्य मनसोऽस्थिरत्वाच्चतुर्थी । एतद्वैपरीत्येन 25 सुखशय्या भाव्या ॥ २३ ॥
5
पुनः पुरुषविशेषानाह—
आत्मम्भरिपरम्भरयो दुर्गतसुगता दुर्गतसुव्रता दुर्गतदुष्प्रत्यानन्दा दुर्गतदुर्गतिगामिनश्च ॥ २४ ॥
आत्मम्भरीति, आत्मानं बिभर्ति पुष्णातीत्यात्मम्भरिः, तत्र कश्चित् आत्मम्भरिर्न परम्भरि 30 था स्वार्थकारक एव, स च जिनकल्पिकोऽन्यः परम्भरिर्नात्मम्भरिर्यथा पार्श्वकारक एव, सच