________________
मुक्ता]
स्थानमुक्तासरिका।
२११ र्जितः, एवमितरे त्रयः । गणस्य साधुसमुदायस्यार्थान् प्रयोजनान्याहारादिभिः स गणस्यार्थकरो न च मानकरः, अभ्यर्थनानपेक्षत्वात्, एवमन्ये त्रयो भङ्गाः। गणस्याहारोपधिशयनादिकैर्शानादिना च संग्रहं करोति संग्रहकरः न मानकर्त्ता न माद्यति, एवमन्येऽपि । गणस्य शोभाकर्ता, अनवयसाधुसामाचारीप्रवर्त्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वादिना वा, नो मानकर्ता, अभ्यर्थनानपेक्षितया मदाभावेन वा, एवमन्येऽपि । गणस्य यथायोगं प्रायश्चित्तादिना शोधेः शुद्धेः कर्त्ता, अथवा शंकित भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो यो भक्तशुद्धिं करोति स प्रथमः, यस्तु मानान्न गच्छति स द्वितीयः, यस्त्वभ्यर्थितो गच्छति स तृतीयः, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति ॥ १९॥
तथारूपधर्मयोधर्ममर्यादयोर्हानाहानाभ्याश्च ॥२०॥
10 रूपेति, रूपं साधुनेपथ्यं तत्कारणवशात् कश्चित्त्यजति न धर्म चारित्रलक्षणं बोटिकमध्यस्थितमुनिवत्, अन्यस्तु धर्म न रूपम् , निह्नववत् , उभयमपि कश्चित् उत्प्रव्रजितवत् , नोभयं कश्चित् सुसाधुवत् । धर्ममर्यादयोरिति, धर्म त्यजत्येको जिनाज्ञारूपं न मर्यादां स्वगच्छकृताम् , इह कैश्चिदाचार्यैः तीर्थकरानुपदेशेन मर्यादा कृता यथा-नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवञ्च योऽन्यगणसत्काय न तद्ददाति स धर्म त्यजति न मर्यादाम् , जिनाज्ञाननुपालनात् , तीर्थक-15 रोपदेशो ह्येवम्-सर्वेभ्यो योग्येभ्यः श्रुतं दातव्यमिति प्रथमः । यस्तु ददाति स द्वितीयः, यस्त्वयोग्ये- . भ्यस्तद्ददाति स तृतीयः । यस्तु श्रुताव्यवच्छेदार्थ तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्खकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि मर्यादा त्यक्तेति स चतुर्थः ॥ २० ॥
तथा
मातापितृभ्रातृमित्रसपत्नीसमा आदर्शपताकास्थाणुखरकण्टकस-20 माश्च श्रमणोपासकाः ॥ २१॥
मातापित्रिति, श्रमणोपासको मातापितृसमानः, उपचारं विना साधुष्वेकान्तेनैव वत्सलत्वात् , भ्रातृसमोऽल्पतरप्रेमत्वात् तत्त्वविचारादौ निष्ठुरवचनादप्रीतेः, तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच, मित्रसमः सोपचारवचनादिना प्रीतिक्षतेः, तत्क्षतौ चापद्यप्युपेक्षकत्वात् , सपत्नीसमः, समानः पतिरस्याः सा सपनी यथा सा सपन्या ईर्ष्यावशादपराधान् वीक्षते, एवं यः साधुषु दूषण-25 दर्शनतत्परोऽनुपकारी च स सपत्नीसमोऽभिधीयते । एवमादर्शसमो यो हि साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत् प्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानः, यस्य बोध: पताकेवानवस्थितो विचित्रदेशनालक्षणवायुना सर्वतोऽपह्रियमाणत्वात्स पताकासमः। यस्य बोधोऽनमनखभावो गीतार्थदेशनया कुतोऽपि न चाल्यते कदाग्रहात् सोऽप्रज्ञापनीयः स्थाणुसमानः, यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलत्यपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टक- 30 समानः, खराः निष्ठुराः कण्टका यस्मिंस्तत. खरकण्टकं बब्बुलादिशाखा, सा च विलमा चीवरं न ..