SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१० [ चतुर्थी पुनरप्याह उदितोदित उदितास्तमितोस्तमितोदितोस्तमितास्तमितश्च ॥ १६ ॥ उदितेति, उदितश्चासौ उदितञ्च, उन्नतकुलबलसमृद्धिनिरवद्य कर्मभिरभ्युदयवान् परमसुखसंदोहोदयेनोदितश्चोदितोदितः, यथा भरतः, तथैवोदितो भास्कर इवास्तमितश्च सर्वसमृद्धिभ्रष्टत्वाb दुर्गतिगतत्वाच्चेत्युदितास्तमितो यथा ब्रह्मदत्तचक्रवर्त्ती, स हि पूर्वमुदित उन्नतकुलोत्पन्नत्वादिना स्वभुज - पार्जितसाम्राज्यत्वेन च पश्चादस्तमितोऽतथाविधकारणकुपितब्राह्मणप्रयुक्त पशुपालधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया मरणानन्तराप्रतिष्ठानमहानरकमहावेदनाप्राप्ततया चेति । तथाऽस्तमितो हीन कुलोत्पत्ति दुर्भगत्व दुर्गतत्वादिना, उदितश्च समृद्धिकीर्त्तिसुगतिलाभादिनेत्यस्तमितोदितो यथा हरिकेशबलाभिधानोऽनगारः, स हि जन्मान्तरोपात्तनीचैर्गोत्रकर्मवशावाप्तहरिकेशाभिधानचाण्डाल कुलतया 10 दुर्भगतया दरिद्रतया च पूर्वमस्तमित आदित्य इवानभ्युदयवत्त्वादस्तमित इति, पश्चात्तु प्रतिपन्नप्रत्रज्यो निष्प्रकम्पचरणगुणावर्जितदेवकृतसान्निध्यतया प्राप्तप्रसिद्धितया सुगतिगततया चोदित इति । अस्तमितो दुष्कुलतया दुष्कर्मकारितया च कीर्त्तिसमृद्धिलक्षण तेजोवर्जितत्वात् पुनरस्तमितो दुर्गतिगमना'दित्यस्तमितास्तमितः, यथा कालाभिधानः सौकरिकः, स हि सूकरैर्मृगयां करोति दुष्कुलोत्पन्नः प्रतिदिनं महिषपञ्चशती व्यापादक इति पूर्वमस्तमितः, पश्चादपि मृत्वा सप्तमनरकपृथिवीं गत इत्यस्त15 मित एवेति ॥ १६ ॥ पुरुषायेणैवाह सूत्रार्थमुक्तावल्याम् - जातिकुलबलरूपश्रुतशीलचारित्रेषु द्विकयोगाच्चतुर्भङ्गः ॥ १७ ॥ जातीति, केचिज्जातिसम्पन्ना न कुलसम्पन्नाः, अपरे जातिसम्पन्नाः कुलसम्पन्नाच, अन्ये न जातिसम्पन्नाः कुलसम्पन्नाश्च, इतरे न जातिसम्पन्ना न वा कुलसम्पन्नाः, एवं जातिबलयोगेन जाति20 रूपयोगेन जातिश्रुतयोगेन जातिशीलयोगेन जातिचारित्रयोगेन कुलबलयोगेन कुलरूपयोगेन कुलश्रुतयोगेन कुलशीलयोगेन कुलचारित्र योगेनेत्येवंरूपतया पुरुषाश्चतुर्भङ्गपातिनो विज्ञेयाः ॥ १७ ॥ पुनः पुरुषाश्रयेणाह - आत्मपराभ्यां वैयावृत्त्येतत्कर्तृत्वप्रतीच्छाभ्यां च ॥ १८ ॥ आत्मेति, कश्चित्पुरुष आत्मवैयावृत्त्यमेव करोति न परस्य, अलसो विसम्भोगिको वा, 25 परस्यैव वैयावृत्त्यकरः स्वार्थनिरपेक्षः, स्वपरवैयावृत्त्यकरः स्थविरकल्पिकः कोऽप्युभयनिवृत्तोऽनशन - विशेषप्रतिपन्नकादिः । वैयावृत्त्यं करोत्येवैको नेच्छति निःस्पृहत्वात्, अम्यः प्रतीच्छत्येव आचार्यत्वग्लानत्वादिना, अपरः करोति प्रतीच्छति च स्थविरविशेषः, उभयनिवृत्तोऽन्यो जिनकल्पिकादिः ॥ १८ ॥ 1 तथा गणस्यार्थसङ्ग्रहशोभाशोधिकर्तृत्वमानकर्तृत्वाभ्याञ्च ॥ १९ ॥ 30 गणस्येति, सामान्येन कश्चिदर्थकार्यर्थान् हिताहितप्राप्तिपरिहारादीन् राजादीनां दिग्याarat करोति, मंत्री नैमित्तिको वा, स चार्थकरो न मानकरः कथमहमनर्थितः कथयिष्यामीत्यबलेपव
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy