SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावल्याम् [चतुर्थी पुनः पुरुषभेदानाह अन्तर्बहिन्यां शल्यदुष्टत्वतश्च ॥ १३५ ॥ अन्तरिति, एकेऽन्तश्शल्या न बहिश्शल्याः, यस्यान्तो मध्ये शल्यं तत्तथा, यच्छल्यं व्रणस्यान्तरल्पं बहिस्तु बहु तद्वहिरिव बहिरुच्यते तद्विद्यते येषां ते बहिश्शल्याः, यदि पुनः सर्वथैव तत् । ततो बहिः स्यात्तदा शल्यतैव न स्यात् , उद्धृतत्वे वा भूतभावितया स्यादपीति, अपरे बहिःशल्या नान्त: शल्याः, येषामन्तर्बहु बहिरप्युपलभ्यते ते उभयशल्याः, चतुर्थः शून्यः, अन्तर्बहिभ्यां भिन्नस्य शल्यस्यैवाभावात् । भावापेक्षया गुरुसमक्षमनालोचितत्वेनान्तःशल्यमतिचाररूपं यस्य स तथा बहिःशल्यमालोचिततया यस्य । अन्तर्बहिश्च शल्यमालोचितत्वानालोचितत्वाभ्याम् , चतुर्थः शून्यः । अन्तर्दुष्टः शठतया संवृताकारत्वान्न बहिरित्येकः, अन्यस्तु करणेनोपदर्शितवापारुष्यादित्वाबहिरेवेत्यूह्यमन्यत् ।। 10 अथ प्रव्रज्यां निरूपयति इहपरोभयलोकप्रतिबद्धाप्रतिबद्धवरूपा अग्रतः पृष्ठत उभयतः प्रतिबद्धाप्रतिबद्धस्वरूपा नटभटसिंहशृगालखादितारूपा च प्रवज्या ॥१३६॥ इहेति, इहलोकप्रतिबद्धा प्रव्रज्या निर्वाहादिमात्राद्यर्थिनाम् , परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनाम् , उभयार्थिनामुभयलोकप्रतिबद्धा, विशिष्टसामायिकवतामप्रतिबद्धा । अग्रतः प्रव्रज्यापर्या15 यभाविषु शिष्याहारादिषु या प्रतिबद्धा साऽप्रतः प्रतिबद्धा । पृष्ठतः प्रतिबद्धा स्वजनादिषु, द्विधापि काचिदुभयतः प्रतिबद्धा अप्रतिबद्धा तु पूर्ववत् । नटस्येव संवेगविकलधर्मकथाकरणोपार्जितभोजनादीनां नटखादितारूपा, तथाविधबलोपदर्शनलब्धभोजनादेर्भटखादितास्वरूपा, शौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वा खादिता सिंहखादितारूपा, व्यावृत्त्योपात्तस्यान्यान्यस्थानभक्षणेन वा खादिता शृगालखादितारूपेति ॥ १३६ ॥ 20 पुनस्तस्या एव भेदानाह अवपाताख्यातसंकेतविग्रहगतिप्रव्रज्यालक्षणा तोदयित्वा प्लावयित्वा संभाष्य परिप्लुतयित्वा च प्रव्रज्या ॥ १३७ ॥ ___ अवपातेति, सद्गुरूणां सेवाऽवपातस्ततो या प्रव्रज्या साऽवपातप्रव्रज्या। आख्यातस्य प्रव्राजयेत्यायुक्तस्य या स्यात्साऽऽख्यातप्रव्रज्या यथाऽऽयरक्षितभ्रातुः फल्गुरक्षितस्य, सङ्केताद्या सा सङ्केतप्रव्रज्या 25 मेतार्यादीनामिव, अथवा यदि त्वं प्रव्रजसि तदाऽहमपीत्येवं या सा तथेति । विग्रहगत्या पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विग्रहगतिप्रव्रज्या। तथा तोदयित्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, प्लावयित्वा अन्यत्र नीत्वाऽऽर्यरक्षितवत्, सम्भाष्य गौतमेन कर्षकवत् , वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च प्रतिज्ञावचनं वा कारयित्वा या सा तथोक्ता । घृतादिभिः परिप्लुतभोजनः परिप्लुत एव तं कृत्वा परिप्लुतयित्वा सुह30 स्तिना रडवत् या सा तथोच्यते ॥ १३७ ॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy