Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 238
________________ मुक्ता] स्थानमुक्तासरिका। २११ र्जितः, एवमितरे त्रयः । गणस्य साधुसमुदायस्यार्थान् प्रयोजनान्याहारादिभिः स गणस्यार्थकरो न च मानकरः, अभ्यर्थनानपेक्षत्वात्, एवमन्ये त्रयो भङ्गाः। गणस्याहारोपधिशयनादिकैर्शानादिना च संग्रहं करोति संग्रहकरः न मानकर्त्ता न माद्यति, एवमन्येऽपि । गणस्य शोभाकर्ता, अनवयसाधुसामाचारीप्रवर्त्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वादिना वा, नो मानकर्ता, अभ्यर्थनानपेक्षितया मदाभावेन वा, एवमन्येऽपि । गणस्य यथायोगं प्रायश्चित्तादिना शोधेः शुद्धेः कर्त्ता, अथवा शंकित भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो यो भक्तशुद्धिं करोति स प्रथमः, यस्तु मानान्न गच्छति स द्वितीयः, यस्त्वभ्यर्थितो गच्छति स तृतीयः, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति ॥ १९॥ तथारूपधर्मयोधर्ममर्यादयोर्हानाहानाभ्याश्च ॥२०॥ 10 रूपेति, रूपं साधुनेपथ्यं तत्कारणवशात् कश्चित्त्यजति न धर्म चारित्रलक्षणं बोटिकमध्यस्थितमुनिवत्, अन्यस्तु धर्म न रूपम् , निह्नववत् , उभयमपि कश्चित् उत्प्रव्रजितवत् , नोभयं कश्चित् सुसाधुवत् । धर्ममर्यादयोरिति, धर्म त्यजत्येको जिनाज्ञारूपं न मर्यादां स्वगच्छकृताम् , इह कैश्चिदाचार्यैः तीर्थकरानुपदेशेन मर्यादा कृता यथा-नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवञ्च योऽन्यगणसत्काय न तद्ददाति स धर्म त्यजति न मर्यादाम् , जिनाज्ञाननुपालनात् , तीर्थक-15 रोपदेशो ह्येवम्-सर्वेभ्यो योग्येभ्यः श्रुतं दातव्यमिति प्रथमः । यस्तु ददाति स द्वितीयः, यस्त्वयोग्ये- . भ्यस्तद्ददाति स तृतीयः । यस्तु श्रुताव्यवच्छेदार्थ तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्खकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि मर्यादा त्यक्तेति स चतुर्थः ॥ २० ॥ तथा मातापितृभ्रातृमित्रसपत्नीसमा आदर्शपताकास्थाणुखरकण्टकस-20 माश्च श्रमणोपासकाः ॥ २१॥ मातापित्रिति, श्रमणोपासको मातापितृसमानः, उपचारं विना साधुष्वेकान्तेनैव वत्सलत्वात् , भ्रातृसमोऽल्पतरप्रेमत्वात् तत्त्वविचारादौ निष्ठुरवचनादप्रीतेः, तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच, मित्रसमः सोपचारवचनादिना प्रीतिक्षतेः, तत्क्षतौ चापद्यप्युपेक्षकत्वात् , सपत्नीसमः, समानः पतिरस्याः सा सपनी यथा सा सपन्या ईर्ष्यावशादपराधान् वीक्षते, एवं यः साधुषु दूषण-25 दर्शनतत्परोऽनुपकारी च स सपत्नीसमोऽभिधीयते । एवमादर्शसमो यो हि साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत् प्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानः, यस्य बोध: पताकेवानवस्थितो विचित्रदेशनालक्षणवायुना सर्वतोऽपह्रियमाणत्वात्स पताकासमः। यस्य बोधोऽनमनखभावो गीतार्थदेशनया कुतोऽपि न चाल्यते कदाग्रहात् सोऽप्रज्ञापनीयः स्थाणुसमानः, यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलत्यपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टक- 30 समानः, खराः निष्ठुराः कण्टका यस्मिंस्तत. खरकण्टकं बब्बुलादिशाखा, सा च विलमा चीवरं न ..

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340