________________
[चतुर्थी
२०६
सूत्रार्थमुक्तावल्याम् अथ कषायाश्रयेणाह- . .
वंशीमूलमेषशृङ्गगोमूत्रिकावलेखनिकाकेतनसमा माया शैलास्थिदारुतिनिशलतास्तम्भसमानो मानः कृमिकर्दमखञ्जनहरिद्रारागरक्तवस्त्रसमो लोभः पर्वतपृथिवीरेणुजलराजिसमः क्रोधः ॥ ११० ॥ 5 वंशीमूलेति, केतनं सामान्यतो वक्र वस्तु, वंशीमूलञ्च तत्केतनञ्च वंशीमूलकेतनं, मेषशृङ्गं गोमूत्रिका च प्रतीता, अवलिख्यमानस्य वंशशलाकादेर्या प्रतन्वी त्वक् साऽवलेखनिकेति, वंशीमूलकेतनादिसमत्वञ्च मायायास्तद्वतामनार्जवभेदात् , तथा हि यथा वंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायापीत्येवमल्पाल्पतराल्पतमानार्जवत्वेनान्यापि भावनीया, इयश्चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपा क्रमेण ज्ञेया, वंशीमूलकेतनसमानमायामनुप्रविष्टो जीवो मृत्वा नैरयिकेषूत्पद्यते, 10 मेषविषाणकेतनसमानमायामनुप्रविष्टस्तिर्यग्योनिषु गोमूत्रिकाकेतनसमानमायामनुप्रविष्टो मनुष्येषु, अवलेखनिकाकेतनसमानमायामनुप्रविष्टश्च देवेषु, एवं मानाद्यनुप्रविष्टोऽपि । अनुप्रविष्ट उदयवर्तीत्यर्थः । शैलस्तम्भः शिलाविकारभूतः स्थाणुः, एवमग्रेऽपि, तिनिशो वृक्षविशेषः तस्य लता-कम्बा, सा चात्यन्तमृद्वी, मानस्यापि शैलस्तम्भादिसमानता तद्वतो नमनाभावविशेषाज्ञया, मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण दृश्यः, कृमिरागे वृद्धसम्प्रदायोऽयम् , यथा मनुष्यादीनां रुधिरं गृहीत्वा केनापि योगेन युक्तं भाजने 15 स्थाप्यते ततस्तत्र कृमय उत्पद्यन्ते, ते च वाताभिलाषिणः छिद्रनिर्गता आसन्ना भ्रमन्तो निहरिलाला मुञ्चन्ति ताः कृमिसूत्रं भण्यते तच्च स्वपरिणामरागरञ्जितमेव भवति, तत्र कृमीणां रागो रखकरसः तेन रक्तं कृमिरागरक्तमेवं सर्वत्र, कर्दमो गोवाटादीनाम् , खञ्जनं दीपादीनाम् , हरिद्रा प्रतीतैव । कृमिरागादिरक्तवस्त्रसमानता च लोभस्यानन्तानुबन्ध्यादितद्भेदवतां जीवानां क्रमेण दृढहीनहीनतरहीनतमानुबन्धत्वात् , तथाहि कृमिरागरक्तं वस्त्रं दग्धमपि न रागानुबन्धं मुश्चति तद्भस्मनोऽपि रक्तत्वात् , 20 एवं यो मृतोऽपि लोभानुबन्धं न मुञ्चति तस्याभिधीयते लोभः कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्या ॥ ११०॥
कर्मसाम्यादाह
प्रकृतिस्थित्यनुभावप्रदेशभेदो बन्धो बन्धनोदीरणोपक्रमणाविपरिणामनाभेद उपक्रमः प्रकृतिस्थित्यनुभावप्रदेशविषयमल्पबहुत्वं संक्रमनिधत्त25 निकाचितान्यपि ॥ १११॥
प्रकृतीति, सकषायजीवस्य कर्मयोग्यपुद्गलग्रहणं बन्धः, तत्र कर्मप्रकृतीनां ज्ञानावरणीयाद्यष्टभेवानामविशेषितस्य कर्मणो वा बन्धः प्रकृतिबन्धः । तासामेव जघन्यादिभेदेन स्थितेर्निर्वर्त्तनं स्थिति
बन्धः, अनुभावो विपाकः, तीब्रादिभेदो रस इत्यर्थस्तस्य बन्धोऽनुभावबन्धः, जीवप्रदेशेषु कर्मप्रदेशाना__ मनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिणामानां बन्धः प्रदेशबन्धः परिमितपरिमाणगुडादिमोदकबन्ध80 वदिति । एवञ्च मोदकदृष्टान्तं वर्णयन्ति वृद्धाः, यथा किल मोदको नागरादिद्रव्यबद्धः सम् कोऽपि