SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ मुक्ता] २०५ स्थानमुक्तासरिका। इत्येवंप्रकारैः-निम्रन्थस्सेत्युपलक्षणं, तेन निम्रन्थस्य निर्ग्रन्थ्या वेत्यर्थः, अतिशयवज्ञान-विलमित्यर्थः, मत्यादितोऽतिशयवत्त्वात् । एवमेतद्विपर्ययेण तदुत्पत्तिर्भाव्या ॥ १०६ ॥ निम्रन्थानामकृत्यनिषेधायाह आषाढाश्विनकार्तिकचैत्रप्रतिपदः प्रथमपश्चिमसंध्यामध्याह्नार्धरात्रयो न वाध्याययोग्याः ॥ १०७ ॥ आषाढेति, एता महाप्रतिपदा, महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्त्या शेषप्रतिपद्धर्मविलक्षणत्वात्, अत एवाषाढस्य पौर्णमास्या अनन्तरा प्रतिपदाषाढप्रतिपदेवमन्यत्रापि, इह च यत्र विषये यतो दिवसान्महामहाः प्रवर्त्तन्ते तत्र तदिवसान्महसमाप्तिदिनं यावत् स्वाध्यायो नन्द्यादिसूत्रविषयो वाचनादिर्न विधीयते, अनुप्रेक्षा तु न निषिध्यते, तच्च पौर्णमास्येव, प्रतिपदस्तु क्षणानुवृत्तिसम्भवेन वय॑न्ते, तथा प्रथमा संध्या अनुदिते सूर्ये, पश्चिमा चास्तसमये, अकालखाध्यायेऽमी दोषा:-'श्रुतज्ञानेऽभक्ति- 10 लोकविरुद्धता प्रमत्तछलना च । विद्यासाधनवैगुण्यधर्मता इति मा कुरु' इति ॥ १०७ ॥ पुरुषविशेषानेवाह आत्मपरान्तकरा आत्मपरतमा आत्मपरदमाश्च पुरुषाः ॥ १०८॥ आत्मेति, आत्मनो भवस्यान्तं कुर्वन्तीत्यात्मान्तकरा न परस्य भवान्तकरा धर्मदेशनानासेवकाः प्रत्येकबुद्धादिरित्येको भङ्गः, परस्य भवान्तं कुर्वन्ति मार्गप्रवर्त्तनेन, नात्मान्तकरा अचरमशरीरा 15 आचार्यादयः, स्वपरात्मान्तकरास्तीर्थकरादयः, न स्वपरात्मान्तकरा दुषमाचार्यादयः । यद्वाऽऽत्मनोऽन्तं मरणं कुर्वन्तीत्यात्मान्तकराः, अत्र प्रथमः आत्मवधकः, द्वितीयः परवधकः, तृतीय उभयहन्ता, चतुर्थस्त्ववधकः । एवमात्मानं तमयति खेदयतीत्यात्मतमः, आचार्यादिः, आत्मनि तमोऽज्ञानं क्रोधो वा यस्य स आत्मतमाः, आत्मानं दमयति शमवन्तं करोति शिक्षयति वेत्यात्मदमः, आचार्योऽश्वदमकादिर्वा परश्चात्र शिष्योऽश्वानि ॥ १०८ ॥ दमश्च गर्षगातः स्यादिति गर्हामाह उपसम्पये विचिकित्सामि यत्किञ्चन मिथ्या मे एवमपि प्रज्ञतेति गीं ॥ १०९॥ उपसम्पद्य इति, गुरुसाक्षिकाऽऽत्मनो निन्दा गहीं, तत्रोपसम्पद्ये गुरुं स्वदोषनिवेदनार्थमाश्रयामि, अभ्युपगच्छामि वोचितं प्रायश्चित्तमित्येवंप्रकारः परिणाम एका गहीं। अस्या गर्हात्वन्तु तथा-25 विधपरिणामस्य गोहेतुत्वेन कारणे कार्योपचारात्, गहाँसमानफलत्वाच्च । विशेषेण विविधप्रकारैर्वा चिकित्सामि गर्हणीयान् दोषान् प्रतिकरोमि निराकरोमीत्येवं विकल्पात्मिकाऽन्या गरे । यत्किञ्चनानुचितं तन्मिथ्या-विपरीतं दुषु मे-मम, इत्येवं वासनागर्भवचनरूपाऽपरा गों, एवं सहपत्वादेव गर्हायाः। एवमपि प्रज्ञप्ता-अनेन खदोषगर्हणप्रकारेणापि जिनैर्दोषशुद्धिरभिहितेति प्रतिपत्तिवापरा गर्हा, एवंविषप्रतिपत्तेर्गहाकारणत्वाविति ॥ १०९ ॥ 20 30
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy