SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०४ सूत्रार्यमुक्तावल्याम् [चतुर्थी येष्वेव मिध्यावादं कथयित्वा सम्यग्वादस्थापनमिति । इहपरलोकखपरशरीराश्रयेण संवेदनी, तत्रेहलोको मनुष्यजन्म, सर्वमिदं मानुषत्वमसारमध्रुवं कदलीस्तम्भसमानमित्यादिरूपतया तत्स्वरूपकथनेन संवेगोत्पादनम् , देवा अपीर्ष्याविषादभयवियोगादिदुःखैरभिभूताः किं पुनस्तिर्यगादय इति देवादिभवस्वरूपकथनरूपा परलोकसंवेदनी, यदेतदस्मदीयं शरीरं तदशुच्यशुचिकारणजातमशुचिद्वारविनिर्गतमिति 5न प्रतिबन्धस्थानमित्यादिकथनरूपाऽऽत्मशरीरसंवेदनी कथा । एवं परशरीरसंवेदन्यपि भाव्या । इहलोके दुश्वीर्णानि कर्माणीहलोके दुःखफलविपाकयुतानि भवन्ति, कानिचित् परलोके दुःखानुभषयुतानि च, परलोके दुश्चीर्णानि चेहलोके दुःखफलविपाकसंयुक्तानि, कानिचिच्च परलोक इति व्यावर्णनं निवेदनी कथा एवं सुचीर्णकर्माश्रयेणापि चतुर्भङ्गो वाच्यः ॥ १०४ ॥ वाग्विशेषमभिधाय कायविशेषमाह10 शरीरस्य कृशदृढत्वाभ्यां ज्ञानदर्शनम् ॥ १०५॥ शरीरस्येति, केचित्पूर्व पश्चादपि कृशाः, अन्ये पूर्व कृशाः पश्चादृढाः, अपरे पूर्व दृढाः पश्चात् कृशाः, इतरे तु पूर्व पश्चादपि दृढाः । भावेन कृशो हीनसत्त्वादित्वात्, पुनः कृशः शरीरादिभिरिति चतुर्भङ्गः । तथा कृशशरीरस्य विचित्रतपसा भावितस्य शुभपरिणामसम्भवेन तदावरणक्षयोपशमादिभावात् , ज्ञानदर्शनं-ज्ञानश्च दर्शनञ्च, ज्ञानेन सह वा दर्शनं छानस्थिकं कैवलिकं वा तत्समुत्पद्यते न 16 दृढशरीरस्य, तस्य ह्युपचितत्वेन बहुमोहतया तथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येकः, तथा मन्दसंहननस्याल्पमोहस्य दृढशरीरस्यैव ज्ञानदर्शनमुत्पद्यते, स्वस्थशरीरतया मनःस्वास्थ्येन शुभपरिणामभावतः क्षयोपशमादिभावात् , न कृशशरीरस्य, अस्वास्थ्यादिति द्वितीयः, तथा कृशस्य दृढस्य वा तदुत्पद्यते विशिष्टसंहननस्याल्पमोहस्योभयथापि शुभपरिणामभावात् कृशत्वदृढत्वे नापेक्षत इति तृतीयः । कृशशरीरस्य दृढशरीरस्य च न तदुत्पद्यत इति चतुर्थः, तथाविधपरिणामाभावात् ॥१०५॥ 20 ज्ञानदर्शनव्याघातमाह ख्यादिकथावादिनो विवेकव्युत्सर्गाभ्यां न सम्यगात्मानं भावयितुः पूर्वरात्रापररात्रकालसमये न धर्मजागरिकया जागृतस्य प्रासुकस्यैषणीयस्योञ्छस्य सामुदानिकस्य सम्यङ् न गवेषयितुर्निर्ग्रन्थस्यातिशयवज्ज्ञानं न भवति ॥ १०६ ॥ 25 ख्यादीति, आदिना भक्तदेशराजग्रहणम्, विवेकोऽशुद्धादित्यागः, व्युत्सर्ग:-कायव्युत्सर्गः, पूर्वरात्रः रात्रेः पूर्वो भागः, अपररात्रः रात्रेरपरो भागः, तावेव कालः, स एव समयोऽवसरः, तस्मिन् कुटुम्बजागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका-निद्राक्षयेण बोधो धर्मजागरिका भावप्रत्युपेक्षेत्यर्थः, तया जागृत:-जागरकस्तस्य, प्रासुको निर्जीवा, एषणीयः कल्प्यः, उद्मादिदोषरहितत्वात् , समका भक्तपानादिः, अल्पाल्पतया गुह्यमाणत्वात् , समुदाने भिक्षणे यालायां भवः सामुदानिका,
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy