________________
मुक्ता ]
स्थानमुक्तारिका ।
२०७
वातहरः कोऽपि पित्तहरः कोऽपि कफहरः कोऽपि मारकः कोऽपि बुद्धिकरः कोऽपि व्यामोहकरः, एवं कर्मप्रकृतिः काचिज्ज्ञानं काचिद्दर्शनमावृणोति काचित्सुखदुःखादिवेदनमुत्पादयति, तथा तस्यैव मोदकस्य यथाऽविनाशभावेन कालनियमरूपा स्थितिरेवं कर्मणोऽपि तद्भावेन नियतकालावस्थानं स्थितिबन्धः, यथा मोदकस्य स्निग्धमधुरादिरेक गुण द्विगुणादिभावेन रसो भवत्येवं कर्मणोऽपि देशसर्वघातिशुभाशुभतीव्रमन्दादिरनुभावबन्धः, तस्यैव मोदकस्य यथा नागरादिद्रव्याणां परिमाणवत्त्वमेवं कर्मणोऽपि 6 पुद्गलानां प्रतिनियतप्रमाणता प्रदेशबन्ध इति । कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतुर्जीवस्य शक्तिविशेष उपक्रमो योऽन्यत्र करणमिति रूढो बन्धादीनामारम्भो वोपक्रमः । तत्र कर्मपुद्गलानां जीवप्रदेशानाश्च परस्परं सम्बन्धनं बन्धनं तस्योपक्रमः, इदच सूत्रमात्रबद्धलोहशलाकासम्बन्धोपमम् । असंकलितावस्थस्य वा कर्मणो बद्धावस्थीकरणं तदेवोपक्रमो बन्धनोपक्रमः, वस्तुपरिकर्मवस्तुविनाशरूपस्याप्युपक्रमत्वात् । एवमप्राप्तकालफलानां कर्मणामुदयप्रवेशनमुदीरणा, उदयोदीरणानिधत्तनिकाच - 10 नाकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुपशमना कर्मणां विविधैः प्रकारैः सत्तोदयक्षयक्षयोपशमोद्वर्त्तनापवर्त्तनादिभिः परिणमनं गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा करणविशेषेण वाऽवस्थान्तरापादनं विपरिणामना, इयं बन्धनादिषु तदन्येष्वप्युदयादिष्वप्यस्तीति सामान्यरूपत्वादिह भेदेनोक्ता । बन्धनोपक्रमचतुर्धा प्रकृत्यादिभिः, तत्र प्रकृतिबन्धनोपक्रमो जीवपरिणामो योगरूपः, तस्य प्रकृतिबन्धहेतुत्वादेवं प्रदेश बन्धनोपक्रमोऽपि, स्थितिबन्धनोपक्रमोऽनुभावबन्धनोपक्रमश्च परिणाम एव कषाय- 15 रूपः, तयोः कषायहेतुकत्वात् । एवमुदीरणोपक्रमणाविपरिणामना अपि चतुर्विधाः प्रकृत्यादिभिः, मूत्रप्रकृतीनां दलिकं वीर्यविशेषेणाकृष्योदये यद्दीयते सा प्रकृत्युदीरणा, वीर्यादेव च प्राप्तोदयया स्थित्या सहाप्राप्तोदया या स्थितिरनुभूयते सा स्थित्युदीरणा, तथैव प्राप्तोदयेन रसेन सहाप्राप्तोदयो रसो यो वेद्यते साऽनुभागोदीरणा, तथा प्राप्तोदयैर्नियतपरिणामकर्मप्रदेशैः सहाप्राप्तोदयानां नियतपरिणामानां कर्मप्रदेशानां यद्वेदनं सा प्रदेशोदीरणा, इहापि कषाययोगरूपः परिणाम उपक्रमार्थः । 20 प्रकृत्युपशमनोपक्रमादयश्चत्वारोऽपि सामान्योपशमनोपक्रमानुसारेण प्रकृतिविपरिणामनोपक्रमादयोऽपि सामान्यविपरिणामनोपक्रमलक्षणानुसारेण चावगन्तव्याः, उपक्रमस्तु प्रकृत्यादित्वेन पुद्गलानां परिणम - नसमर्थं जीववीर्यमिति । अल्पं स्तोकं बहु प्रभूतं तद्भावोऽल्पबहुत्वम्, प्रकृतिविषयमल्पबहुत्वं बन्धापेक्षा, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधबन्धकत्वात्, बहुतरबन्धक उपशमकादिसूक्ष्मसम्परायः षडिधबन्धकत्वात् बहुतरबन्धकः सप्तविधबन्धकस्ततोऽष्टविधबन्धक इति । स्थिति - 25 विषयमल्पबहुत्वं यथा संयतस्य जघन्यः स्थितिबन्धः सर्वस्तोकः, एकेन्द्रियबादरपर्याप्तकस्य जघन्यः स्थितिबन्धोऽसंख्यातगुण इत्यादि । अनुभागं प्रत्यल्पबहुत्वं यथा अनन्तगुणवृद्धिस्थानानि सर्वस्तोकानि, असंख्येयगुणवृद्धिस्थानान्यसंख्येयगुणानि यावदनन्तभागवृद्धिस्थानान्यसंख्येयगुणानीत्यादि, प्रदेशाल्पबहुत्वं यथाऽष्टविधबन्धकस्याऽऽयुर्भागः स्तोको नामगोत्रयोस्तुल्यो विशेषाधिको ज्ञानदर्शनावरणान्तरायाणां तुल्यो विशेषाधिको मोहस्य विशेषाधिको वेदनीयस्य विशेषाधिक इत्यादि । जीवो यां 30 प्रकृतिं बध्नाति तदनुभावेन प्रकृत्यन्तरस्थं दलिकं वीर्यविशेषेण यत्परिणमति स संक्रमः, तत्र प्रकृतिसंक्रमः सामान्यलक्षणावगम्य एव, मूलोत्तरप्रकृतीनां स्थितेर्यदुत्कर्षणमपकर्षणं वा प्रकृत्यन्तरस्थितौ
1