SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २०८ सूत्रार्थमुक्तावल्याम् [ चतुर्थी 1 नयनं स स्थितिसंक्रमः । अनुभावसंक्रमोऽप्येवमेव । यत्कर्मद्रव्यमन्यप्रकृतिस्वभावेन परिणम्यते स प्रदेशसंक्रमः । उद्वर्त्तनापवर्त्तना वर्जितानां शेषकरणायोग्यत्वेन कर्मणोऽवस्थापनं निधत्तम्, कर्मणः सर्षकरणायोग्यत्वेनावस्थापनं निकाचितम् अथवा पूर्वबद्धस्य कर्मणस्तप्तसंमीलितलोहशलाका सम्बन्धसमानं निधत्तं, तप्तमिलितसंकुट्टितलोहशलाका सम्बन्धसमानं निकाचितम् उभयत्रापि प्रकृत्यादिविशेषः -5 सामान्यलक्षणानुसारेण नेय इति ॥ १११ ॥ सर्वमिदं पूर्वोदितं जिनोक्तत्वात्सत्यमिति तन्निरूपयति — नामस्थापनाद्रव्यभावभेदं सत्यम्, उग्रघोरतपोरसपरित्यागजिह्वेन्द्रियसंलीनता आजीविकानां तपांसि मनोवाक्कायोपकरणभेदाः संयमाः एवं त्यागाकिंचनते ॥ ११२ ॥ 10 नामेति, नामस्थापनासत्ये प्रसिद्धे द्रव्यसत्यमनुपयुक्तस्य भावसत्यन्तु स्वपरानुरोधेनोपयुक्तस्येति । आजीविकानां गोशालक शिष्याणामुग्रतपः अष्टमादि, घोरं आत्मनिरपेक्षम् । घृतादिरसपरित्यागः, मनोज्ञामनोज्ञेष्वाहारेषु रागद्वेषपरिहारो जिह्वेन्द्रियसंलीनता । आर्हतानान्तु द्वादशधा । मनोवाक्कायानामकुशलत्वेन निरोधाः, कुशलत्वेन तूदीरणानि संयमाः, उपकरणसंयमो महामूल्यवस्नादिपरिहारः, पुस्तकवस्त्रतृणचर्म पश्चकपरिहारो वा । वस्त्रपञ्चकं द्विधा, अप्रत्युपेक्षितदुष्प्रत्युपेक्षित15 भेदात्, अजैडकगोमहिषीमृगाणामजिनं चर्मपचकम् । मनःप्रभृतीनां त्यागः प्रतीत एव, मनःप्रभृतिभिरशनादेः साधुभ्यो दानं वा त्यागः । उपकरणेन पात्रादिना भक्तादेस्तस्य वा त्याग उपकरणत्यागः । न विद्यते किञ्चन द्रव्यजातमस्येत्य किचनस्तद्भावोऽकिञ्चनता निष्परिग्रहतेत्यर्थः ॥ ११२ ॥ अथ भावचातुर्विध्यमाह - कर्दमखञ्जनवालुकाशैलोदकसमो भावः ॥ ११३ ॥ कर्दमेति, यत्र प्रविष्टः पादादिर्नाॠष्टुं शक्यते कष्टेन वा शक्यते स कर्दमः, दीपादिखञ्जन - तुल्यः पादादिलेपकारी कर्दमविशेष एव खञ्जनं, वालुकाप्रतीता, सा तु लग्नापि जलशोषे पादादेरल्पेनैव प्रयत्नेनापैतीत्यल्पलेपकारिणी, शैलास्तु पाषाणाः श्लक्ष्णरूपास्ते पादादेः स्पर्शनेनैव किश्चिद्दुःखमुत्पादयन्ति न तु तथाविधं लेपमुपजनयन्ति कर्दमादिप्रधानान्युदकानि कर्दमोदकादीनि, तत्समो भावो जीवस्य रागादिपरिणामः, तस्य कर्दमोदकादिसाम्यं तत्स्वरूपानुसारेण कर्मलेपमङ्गीकृत्य मन्तव्यम् 25 तत्तद्भावयुतो जीवो मृत्वा क्रमेण नैरयिकादिषूत्पद्यते ॥ ११३ ॥ तद्वतः पुरुषान् निरूपयति रुतरूपाभ्यां प्रीत्यप्रीतिभ्यां पुरुषाणां चतुर्भङ्गः ॥ ११४ ॥ रुतेति, रुतं मनोज्ञशब्दः रूपमपि तथा, तत्र यथा कश्चित् पक्षी मनोज्ञशब्देन सम्पन्नो न च रूपेण मनोज्ञेन, कोकिलवत्, कचिद्रूपसम्पन्नो न रुतसम्पन्नः प्राकृतशुकवत्, उभयसम्पन्नो मयूरवत्, 30 अनुभयसम्पन्नः काकवत्तथा पुरुषोऽपि यथायोगं मनोज्ञशब्दः प्रशस्तरूपञ्च प्रियवादित्वसद्वेषत्वाभ्यां 20 "
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy