Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 235
________________ २०८ सूत्रार्थमुक्तावल्याम् [ चतुर्थी 1 नयनं स स्थितिसंक्रमः । अनुभावसंक्रमोऽप्येवमेव । यत्कर्मद्रव्यमन्यप्रकृतिस्वभावेन परिणम्यते स प्रदेशसंक्रमः । उद्वर्त्तनापवर्त्तना वर्जितानां शेषकरणायोग्यत्वेन कर्मणोऽवस्थापनं निधत्तम्, कर्मणः सर्षकरणायोग्यत्वेनावस्थापनं निकाचितम् अथवा पूर्वबद्धस्य कर्मणस्तप्तसंमीलितलोहशलाका सम्बन्धसमानं निधत्तं, तप्तमिलितसंकुट्टितलोहशलाका सम्बन्धसमानं निकाचितम् उभयत्रापि प्रकृत्यादिविशेषः -5 सामान्यलक्षणानुसारेण नेय इति ॥ १११ ॥ सर्वमिदं पूर्वोदितं जिनोक्तत्वात्सत्यमिति तन्निरूपयति — नामस्थापनाद्रव्यभावभेदं सत्यम्, उग्रघोरतपोरसपरित्यागजिह्वेन्द्रियसंलीनता आजीविकानां तपांसि मनोवाक्कायोपकरणभेदाः संयमाः एवं त्यागाकिंचनते ॥ ११२ ॥ 10 नामेति, नामस्थापनासत्ये प्रसिद्धे द्रव्यसत्यमनुपयुक्तस्य भावसत्यन्तु स्वपरानुरोधेनोपयुक्तस्येति । आजीविकानां गोशालक शिष्याणामुग्रतपः अष्टमादि, घोरं आत्मनिरपेक्षम् । घृतादिरसपरित्यागः, मनोज्ञामनोज्ञेष्वाहारेषु रागद्वेषपरिहारो जिह्वेन्द्रियसंलीनता । आर्हतानान्तु द्वादशधा । मनोवाक्कायानामकुशलत्वेन निरोधाः, कुशलत्वेन तूदीरणानि संयमाः, उपकरणसंयमो महामूल्यवस्नादिपरिहारः, पुस्तकवस्त्रतृणचर्म पश्चकपरिहारो वा । वस्त्रपञ्चकं द्विधा, अप्रत्युपेक्षितदुष्प्रत्युपेक्षित15 भेदात्, अजैडकगोमहिषीमृगाणामजिनं चर्मपचकम् । मनःप्रभृतीनां त्यागः प्रतीत एव, मनःप्रभृतिभिरशनादेः साधुभ्यो दानं वा त्यागः । उपकरणेन पात्रादिना भक्तादेस्तस्य वा त्याग उपकरणत्यागः । न विद्यते किञ्चन द्रव्यजातमस्येत्य किचनस्तद्भावोऽकिञ्चनता निष्परिग्रहतेत्यर्थः ॥ ११२ ॥ अथ भावचातुर्विध्यमाह - कर्दमखञ्जनवालुकाशैलोदकसमो भावः ॥ ११३ ॥ कर्दमेति, यत्र प्रविष्टः पादादिर्नाॠष्टुं शक्यते कष्टेन वा शक्यते स कर्दमः, दीपादिखञ्जन - तुल्यः पादादिलेपकारी कर्दमविशेष एव खञ्जनं, वालुकाप्रतीता, सा तु लग्नापि जलशोषे पादादेरल्पेनैव प्रयत्नेनापैतीत्यल्पलेपकारिणी, शैलास्तु पाषाणाः श्लक्ष्णरूपास्ते पादादेः स्पर्शनेनैव किश्चिद्दुःखमुत्पादयन्ति न तु तथाविधं लेपमुपजनयन्ति कर्दमादिप्रधानान्युदकानि कर्दमोदकादीनि, तत्समो भावो जीवस्य रागादिपरिणामः, तस्य कर्दमोदकादिसाम्यं तत्स्वरूपानुसारेण कर्मलेपमङ्गीकृत्य मन्तव्यम् 25 तत्तद्भावयुतो जीवो मृत्वा क्रमेण नैरयिकादिषूत्पद्यते ॥ ११३ ॥ तद्वतः पुरुषान् निरूपयति रुतरूपाभ्यां प्रीत्यप्रीतिभ्यां पुरुषाणां चतुर्भङ्गः ॥ ११४ ॥ रुतेति, रुतं मनोज्ञशब्दः रूपमपि तथा, तत्र यथा कश्चित् पक्षी मनोज्ञशब्देन सम्पन्नो न च रूपेण मनोज्ञेन, कोकिलवत्, कचिद्रूपसम्पन्नो न रुतसम्पन्नः प्राकृतशुकवत्, उभयसम्पन्नो मयूरवत्, 30 अनुभयसम्पन्नः काकवत्तथा पुरुषोऽपि यथायोगं मनोज्ञशब्दः प्रशस्तरूपञ्च प्रियवादित्वसद्वेषत्वाभ्यां 20 "

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340